SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मानसामीप्ये वर्तमानवद् वे' (पा०३-३-१३१) ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देशः, 'समासेन' संक्षेपेणेति गाथार्थः ॥ ५४ ॥ तत्र तावदात्मसंयोगमाह ओदइय ओवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए अछविहो अत्तसंजोगो॥५५॥3 | व्याख्या-'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिक तथा क्षायोपशमिके च परिणामसन्निपाते |2 च, सर्वत्र संयोग इति प्रक्रमः, तत एष षड्विधः' षड़ेदः, आत्मभिः-आत्मरूपैः संयोग इति सम्बन्धनसंयोगः आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन,त्रिभिरौदयिकेन देवगत्यादिनाक्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चतुर्भिस्त्रिभिरे(वमेव चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्रच त्रिकभङ्गक एकः चतुष्कभङ्गौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तंच-“ओदइय खओवसमोतइओ पुण पारिणामिओ भावो। एसोपढमवियप्पो १ औदयिकः क्षायोपशमिकः तृतीयः पुनः पारिणामिको भावः । एष प्रथमविकल्पो देवानां भवति ज्ञातव्यः ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy