SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भावनीयं, 'मिथ्ये' ति भावप्रधानत्वान्निर्देशस्य मिध्यात्वम् - अशुद्धदलिकखरूपं, 'मिश्र' शुद्धाशुद्धदलिकखभावं, च| शब्दः शेषौदयिक भेदसमुच्चये, अत एवोपसंहारमाह- 'यावन्तो' यत्परिणामा औदयिकाः, भावा इति गम्यते, प्रक्र| मादेतद्विषयो यः संयोगः 'सर्वः' निर्विशेषः सः 'बाह्यः' परः तद्विषयत्वाद्, बाह्यसंयोग इति प्रकृतत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः, इहापि बाह्यशब्देन प्राग्वद् बाह्यार्पित उक्तः । आह - 'भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव' इतिवचनादौदयिकोऽपि जीवभावत्वेन जीवार्पित एवेति कथं बाह्ये कर्मण्यर्पित इति, अत्रोच्यते, कर्मानुभवनमुदयः, अनुभवनं चानुभवितरि जीवेऽनुभूयमाने च कर्मणि स्थितं, तत्र यदाऽनुभवितरि जीवे विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयोजनमस्येत्योदयिकः - कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एव तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकभावस्योक्तं यदा त्वनुभूयमानस्थतया विवक्ष्यते तदोदये- कर्मणः | फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते - भावा भव|न्ति जीवस्यौदयिक इत्यादि । इहापि चादेशान्तरेण वक्ष्यति - 'छविहो अत्तसंजोगो' त्ति 'सर्वः स' इति चैकवचनं बाह्यसंयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच्च व्यवहाराणामिति गाथार्थः ॥ ५२ ॥ उभयार्पितस|म्बन्धनसंयोगमाह - Jain Education International १ यत्परिमाणा इति स्यात्, परिणामस्य परिमाणताऽर्थोऽत्र वा । प्र For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy