________________
उत्तराध्य.
बृहद्वृत्तिः
॥२१३॥
धान्तीति सूत्रार्थः ॥ ५ ॥ एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्मणश्चाव-असंस्कृता. ध्यत्वमुपदर्य यत् कृत्यं तदाह
सुत्तेसु आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुपन्ने ।
घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो॥६॥ (सूत्रम्) __ व्याख्या-'सुप्तेषु' द्रव्यतः शयानेषु भावतस्तु धर्म प्रत्यजाग्रत्सु, चः पादपूरणे, 'चशब्दः समाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचनादिष्विति वचनात् , अपिः सम्भावने, ततोऽयमर्थः-सुप्तेष्वप्यास्तां जाग्रत्सु च, किमित्याह-प्रतिबुद्धं-प्रतिबोधः द्रव्यतो जाग्रत्ता भावतस्तु यथावस्थितवस्तुतत्त्वावगमस्तेन जीवितुं-प्राणान् धनु शीलमस्येति प्रतिबुद्धजीवी, यदि वा प्रतिबुद्धो-द्विधाऽपि प्रतिबोधवान् जीवतीत्येवंशीलः-प्रतिबुद्धजीवी, कोऽभिप्रायः ?-द्विधा प्रसुप्तेष्वपि अविवेकिषु न गतानुगतिकतयाऽयं खपिति, किन्तु प्रतिबुद्ध एव यावज्जीवमास्ते, तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणं, तत्र च वृद्धवादः
॥२१॥ उजेणीए जियसत्तुस्स रण्णो अमोहरहो नाम रहितो, तस्स जसमती नाम भजा, तीसे अगडदत्तो नाम पुत्तो, १ उज्जयिन्यां जितशत्रो राज्ञोऽमोघरथो नाम रथिकः, तस्य यशोमती नाम भार्या, तस्या अगडदत्तो नाम पुत्रः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org