________________
| खजनखतत्त्वमालोचयन् प्रब्रज्यां प्रत्याहतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचकः- “रोगात्रातो दुःखाहितस्तथा खजनपरिवृतोऽतीव । कणति करुणं सवाष्पं रुजं निहन्तुं न शक्तोऽसौ ॥ १ ॥ माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं खजनवलं किं वृथा वहसि ? ॥ २ ॥ रोगहरणेऽप्यशक्ताः प्रत्युत धर्म्मस्य ते तु विघ्नकराः । मरणाच न रक्षन्ति स्वजनपराभ्यां किमभ्यधिकम् ? ॥ ३ ॥ तस्मात् स्वजनस्यार्थे | यदिहाकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ ! ॥ ४ ॥ तस्मात् खजनस्योपरि सङ्ग परिहाय निर्वृतो भूत्वा । धर्म्म कुरुष्व यत्नाद्यत्परलोकस्य पश्यदनम् ॥ ५ ॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्म्मभ्यः वजनान्न मुक्तिरित्युक्तम् अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आहवित्तेण ताणं न लभे पत्ते, इमंमि लोए अदुवा परत्थ ।
"
दीपट्टे व अनंतमोहें, नेयाउयं दमदमेव ॥ ५ ॥ (सूत्रम् )
व्याख्या- 'वित्तेन' द्रविणेन ' त्राणं' खकृतकर्मणो रक्षणं 'न लभते' न प्राप्नोति इति कीदृक् ? - ' प्रमत्तः | मद्यादिप्रमादवशगः, क ? - 'इमंमि' त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे 'ति अथवा 'परत्रे' ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः -
Jain Education International
For Personal & Private Use Only
ぷぷぷ
www.jainelibrary.org