________________
चोरेणवि वाहिरत्थेण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहिं उभयहा कडिजमाणो सयंकियपागार कविसीसगेहिं फालिज्जमाणो अत्ताणो विलवित्ति ॥ एवममुनैवोदाहरणदर्शितन्यायेन 'प्रजाः' हे प्राणिनः ! 'पेच्छ' त्ति प्रेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम्, 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां पर| लोक इत्यपिशब्दार्थः, 'कृतानां' स्वयंविरचितानां 'कर्म्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि | तद्विमोचनं प्रत्यसामर्थ्याद्, अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति - यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः स्वकृतेनैव क्षत्रखननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च - ' एवं पया पेच इहं च'ति, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवनेन, काऽसौ ? - प्रजा, क्क १ - 'प्रेत्य' परभये, 'इहं चे'ति इहलोके, | किमिति प्रेत्येत्युच्यते - यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां कर्म्मणां मोक्षो नास्ति ॥ ( ग्रन्थाग्रम् ५००० ) इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा 'एवं पया पेच इहंपि लोए, ण कम्मुणो पीहति तो कयाती' | एवं प्रजा ! आमन्त्रणपदमेतत् प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित् ' कस्मिं१० चौरेणापि बाह्यस्थेन हस्ते गृहीतः, स ताभ्यां द्वाभ्यामपि बलवद्र्यामुभयतः कृष्यमाणः स्वयंकृतप्राकारकपिशीर्षकैः पाट्यमानोऽत्राणो विलपतीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org