________________
एतद्विपरीतं चासंस्कृतमिति। सम्प्रति सूत्रमनुश्रियते-तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिवन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः, यत आह-"धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति । धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्धनान्यजयध्वं धनान्यजयध्वम् ॥१॥” इति, तन्मतमपाकर्तुमाह
जे पावकम्मेहि धणं मणुस्सा, समाययंती अमतिं गहाय ।
पहाय ते पास पयहिए नरे, वेराणुबद्धा नरयं उवेति ॥२॥ (सूत्रम्) व्याख्या-'य' इति ये केचनाविवक्षितस्वरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धनं' द्रव्यं हा मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्त्तनादित्थमुक्तं, 'समाददते' खीकुर्वन्ति, “अमतिम्' इति प्राग्वन्नञः।
कुत्सायामपि दर्शनात् कुमतिम्-उक्तरूपां 'गहाय'त्ति गृहीत्वा सम्प्रधार्य, पठ्यते च-'अमयं गहाये'ति अशोभनं मतममतं-नास्तिकादिदर्शनम् , अथवा अमृतमिवामृतम्-आत्मनि परमानन्दोत्पादकतया तच प्रक्रमाद्धनं 'पहाय'त्ति
१ दन्त्यसकारवान् स्यात् , स्याद्वा संज्ञापूर्वको विधिरनित्य इति न्यायमाश्रित्य नामिसंज्ञोद्देशेन गुणविधानात् गुणाभावात आत्मनेपदे एवं, धातुर्वा दिवादावात्मनेपदी कस्यचिन्मते स्यात् तुदादौ वा, कर्मणि प्रयोगात्तु न तत्कल्पनं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org