________________
असंस्कृता.
उत्तराध्य. बृहद्वृत्तिः ॥२०१॥
न च तानि विस्तरतो वक्तुं शक्यानि अत आह-'चतुर्विधं चतूरूपम् , 'इदम्' इत्युत्तरकरणं, समासेन, उच्यत| इति शेषः, तदेवाह-'सङ्घातना च' संघातनाकरणं 'परिशाटना च' परिशाटनाकरणं 'मिस्से त्ति मिश्र सङ्घातनापरिशाटनाकरणं तथैव 'प्रतिषेधः' इति सङ्घातनापरिशाटनाशून्यम् , अमीषां चोदाहरणानि दर्शयन्नाह–पटे सङ्घातनैव तन्तुसङ्घातनिष्पन्नत्वात्तस्य, शङ्ख परिशाटनैव परिशाट्यमानत्वादेवास्य, शकटे उभयं यतस्तत्र किञ्चित्सङ्घात्यते कीलिकादि किञ्चिच परिशाट्यतेऽधिकत्वगादि, स्थूणानामुभयाभावः, तथा च 'उड्डतिरिच्छाणं ति भावप्रधानत्वादस्योर्ध्वतिर्यक्त्वयोः करणं, चशब्दान्नमनोन्नमनादि च तत्रोत्तरकरणं च, न तु सङ्घातनापरिशाटना च, आहइदमप्यजीवानां क्रियत इत्यजीवकरणमेव, तत्कथमस्य जीवकरणत्वेनोपन्यासः १, उच्यते, जीवेन क्रियत इति विवक्षया जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः ॥ १९३-१९४ ॥ अजीवप्रयोगकरणमाहअजियप्पओगकरणं दवे वण्णाइयाण पंचण्हं। चित्तकर(णं)कुसुभाईस विभासा उसेसाणं ॥१९५॥ __ व्याख्या-अस्याक्षरार्थः सुगमः ॥ १९७ ॥ भावार्थस्त्वयं-जं जं णिज्जीवाणं कीरइ जीवप्पओगओ तं तं ।। वण्णादि रूवकम्मादि वावि तदजीवकरणन्ति ॥१॥ उक्तं द्रव्यकरणं, क्षेत्रकरणमाहण विणा आगासेणं कीरइ जं किंचि खित्तमागासं । वंजणपरिआवन्नं उच्छुकरणमाइअंबहुहा ॥१९६॥ १ यद्यन्निर्जीवानां क्रियते जीवप्रयोगतस्तत्तत् । वर्णादि रूपकर्मादि वाऽपि तदजीवकरणमिति ॥ १॥
॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org