SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ | करणानि - अवस्थान्तरापादनानि इन्द्रियकरणानि तानि च ' उपघातविशुद्धितः' उपघातात् विशुद्धेश्च भवन्ति, | तत्रोपघाताद्विषाद्यभ्यवहारतोऽन्धवधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराञ्जनादिना स्पष्टताद्यापादनान्युत्तरकरणं भवति, पठ्यते च - 'इंदियकरणं च तह'त्ति अत्र चैकवचनान्ततया सर्व व्याख्येयमिति गाथार्थः ॥ १९१ ॥ | अथवाऽन्यथा करणमुच्यते | संघायणपरिसाडणउभयं तिसु. दोसु नत्थि संघाओ । कालंतराइ तिण्हं जहेव सुत्तमि निद्दिट्टं ॥ ९९२ ॥ व्याख्या - 'संघायणे 'ति संहन्यमानानां - संयुज्यमानानामौदारिकादिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदा| त्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्त्तनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परिः समन्ताच्छटतां| पृथग्भवतामौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभाव|भिहिताववयवावस्येति उभयं सङ्घातनापरिशाटन करणं । किमिदं त्रयमपि पञ्चखप्यौदारिकादिषु अथान्यथेत्याह - | त्रिष्वाद्येषु, किमुक्तं भवति ? - औदारिकवैक्रियाहारकेषु, 'द्वयोः' तैजसकार्म्मणयोः, किमित्याह – 'नास्ति' न विद्यते, कोऽसौ ? - सङ्घातः, तदभावाच्च सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततप्ततापिकाप्र| क्षिप्तापूपवत् तैलसदृशानौदारिका दिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादाअनादिसंहतिमत्वात्तयोः, परिशाटना तु शैलेशीचरमसमये, प्रतिसमयं सङ्घातना परिशाटनोभयं च सम्भ नसम्भवः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy