________________
उत्तराध्य. बृहद्वृत्तिः
॥१९॥
नोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषयोपमां यान्तीति विषयाः, असंस्कृता. अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताश्च, तदुक्तम्-"आपातमात्रमधुरा विपाककटवो विषोपमा 31 विषयाः। अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः॥१॥" कष्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावम-1 नुभवति कषोपलकष्यमाणकनकवदिति कषः-संसारस्तस्मिन् आ-समन्तादयन्ते-गच्छन्त्येभिरसुमन्त इति कषायाः, यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकपायकलुषिते वाससि मजिष्ठादिरागः श्लिष्यति चिरं चावतिष्ठते| तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थिति के च जायते, तदायत्तत्वात् तस्थितेः, उक्तं हि शिवशर्मणा| "जोगा पयडिपएसं ठितिअणुभागं कसायओ कुणइ"इत्यादि, एतहुष्टता च निरुक्त्यैव भाविता, 'णिद्द'त्ति नितरां द्रान्ति-गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहैवानुभवन्ति, धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा चाह-"जांगरिया धम्मीणं अहमीणं च सुत्तया सेया। वच्छाहिवभ|गिणीए अकहिंसु जिणो जयंतीए ॥१॥" विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसक्तो हिमरगुणदोषोदीरणादिभिः पापमेवोपार्जयति, अत एवाह वाचकः-"यावत् परगुणदोषपरिकीर्तने
१ योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति । २ जाग्रत्ता धर्मिणामधर्मिणां च सुप्तता श्रेयसी। वत्साधिपभगिन्यै अचकथत् जिनो जयन्यै ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org