________________
इति, इह पुनस्तस्यैहागमनकल्पनमतिमोहविलसितं, तथा च स्तुतिकृत्-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाण-|| मप्यनवधारितभीरुनिष्ठः । मुक्तः खयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥" इति सूत्रार्थः |॥ २०॥ इतिः परिसमाप्तौ, ब्रवीमि प्राग्वदिति। उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव । इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां तृतीयमध्ययनं समाप्तमिति ॥
तृतीयमध्ययनं समाप्तम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org