________________
उत्तराध्य.
बृहद्वृत्तिः
॥१८८॥
।
भोच्चा माणुस्सए भोए, अप्पाडरूवे अहाउयं । पुत्रं विसुद्ध सद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥ (सूत्रम्) व्याख्या -' भुक्त्वा ' आसेव्य 'मानुष्यकान् ' मनुष्यसम्बन्धिनः भुज्यन्त इति भोगाः - मनोज्ञशब्दादयस्तान् अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमे पामित्यप्रतिरूपाः तान्, 'यथायुः' आयुषोऽनतिक्रमेण पूर्व - पूर्वजन्मविशुद्धो निदानादिरहितत्वेन 'सद्धर्म्म: (र्मा)' शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच्च 'धर्मादनिच् केवला - दिति ( पा० ५-४- १२४ ) इत्यनिच् भवति, 'केवलाम्' अकलङ्कां 'बोधिं' जिनप्रणीतधर्म्मप्राप्तिलक्षणां 'बुद्धा' अनुभूय प्राप्येतियावत् ॥ १९ ॥ ततोऽपि किमित्याह
चउरंगं दुल्लभं मच्चा, संजमं पडिवज्जिया । तवसा धुतकम्मंसे, सिद्धे भवति सासए ॥ २०॥ तिबेमि (सूत्रम्)
व्याख्या - चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितखरूपां 'दुर्लभां' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयमं ' सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतम् - अपनीतं, कम्मसित्ति - कार्म्मग्रन्थिकपरिभाषया सत्कर्मानेनेति धुतकर्माशः, तदपनयनाच बन्धादीनामप्यर्थतोऽपनयनमुक्तमेव, यद्वा धुताः कर्म्मणोऽंशा-भागा येन स तथाविधः किमित्याह - सिद्धो भवति, स च किमाजीविकमतपरिकल्पितसिद्धवत् | पुनरिहैति उत नेत्यत आह-- 'शाश्वतः शश्वद्भवनात् शश्वद्भवनं च पुनर्भवनिबन्धनकर्म्मवीजात्यन्तिकोच्छेदात्, तथा चाह - "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
चतुरङ्गीया ध्ययनम्
3
॥१८८॥
www.jainelibrary.org