________________
माभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निहवो-जमालिप्रभृतिः पश्चात्कृतश्रुतपरिणतिः, आदिशब्दात्पुरस्कृतश्रुतपरिणतिसत्त्वपरिग्रहः, भावश्रुतमप्यागमनोआगमभेदतो द्विधा, तत्रागमतोऽभिधातुमाह-भावतो भावरूपं वा श्रुतं भावश्रुतं,प्राकृतत्वादिह पूर्वत्र च बिन्दुलोपः, 'श्रुते' श्रुतविषये, 'तुः' अवधारणे भिन्नक्रमः, तत उपयुक्त एव, कोऽर्थः-यस्य श्रुतमिति पदं ज्ञातं तत्र चोपयोगः स भावश्रुतं, तदुपयोगानन्यत्वाद् , अम्युपयुक्तमाणवकाग्निवदिति गाथार्थः॥ २९ ॥ उक्तावोधनामनिष्पन्न निक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तथापि स नोच्यते, यतः सति सूत्रेऽसौ सम्भवति, सूत्रं च सूत्रानुगमे, स चानुगमभेद इति अनुगम एव तावदुपवर्ण्यते-द्विवि|धोऽनुगमः-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यो निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगम उत्तरादिनिक्षेपप्रतिपादनादनुगत एव, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम्-"उद्देसे णिहेसे य णिग्गमे खेत्त काल पुरिसे य । कारण पञ्चय लक्खण णए समोयारणाणुमए॥१॥ किं कइविहं कस्स कहिं केसु कहं केचिरं हवइ कालं? कइ संतरमविरहियं भवागरिस फासण णिरुत्ती ॥२॥" एतदर्थः सामायिकनियुक्तितोऽवसेयः, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रावयवव्याख्यानरूपत्वात् सूत्रस्प| १ उद्देशो निर्देशश्च निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं नयः समवतारणाऽनुमतम् ॥ १॥ किं कतिविधं कस्य क केषु कथं कियचिरं भवति कालम् । कतिसान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥ २ ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org