________________
उत्तराध्य. बृहद्वृत्तिः ॥१७॥
चतरङ्गीया ध्ययनम्
ॐॐE%
SAGAR
नामन्यत्र सञ्चारतः सुखदुःखाद्यात्मधर्मसङ्कीर्णतापत्तिः, तदुक्तम्-"अह खंधो इव संघायभेयधम्मा स तोऽवि सवेसिं । अवरोप्परसंचारे सुहाइगुणसंकरो पत्तो ॥१॥” तथात्वे च कृतनाशाकृताभ्यागमौ, अथ प्रयोगतस्तन्न, अमूर्त्तद्रव्यत्वादिभिर्नभस इव जीवस्य खण्डशो विनाशयितुमशक्यत्वात् , तथात्वे वा सर्वनाशादिदोषप्रसङ्गः, उक्तं च"देवामुत्तत्ता कयभावादविकारदरिसणातो य । अविणासकारणेहि नभसोच न खंडसो णासो॥१॥णासे य सचनासो जीवस्स ण सौ य जिणमयच्चातो। तत्तो य अणिम्मोक्खो दिक्खावेफलदोसो य ॥२॥" किञ्च-अयं कुतो निश्चीयते ?, अथ गृहकोलिकाच्छिन्नपुच्छशरीरान्तराले जीवस्यासत्त्वात् , तदसत्त्वं च तदग्रहणात् , तर्हि तत्तदग्रहणमौदारिकशरीररूपेण सर्वथा वा ?, न तावदाद्यः पक्षो, यतो न जीवस्यौदारिकमेवैकं शरीरं येन तदग्रहणेन तदसत्त्वनिश्चयः स्यात् , |द्वितीयपक्षे पुनरनैकान्तिकमग्रहणं, दीपरश्मीनामिव भित्त्यादिकमन्तरेण विनोदारिकशरीरमशरीरस्य सूक्ष्मशरीरस्य वा सतोऽपि जीवस्याग्रहणात् , तथा चोक्तम्-"गैज्झामोत्तिगयातो णागासे जह पदीवरस्सीतो। तह जीवलक्ख
%
%
॥१७॥
१ अथ स्कन्ध इव संघातभेदधर्मा स तदापि सर्वेषाम् । अपरापरसंचारे सुखादिगुणसांकर्य प्राप्तम् ॥ १॥२ अमूर्तद्रव्यत्वात् अक-1 तकत्वात् अविकारदर्शनाच्च । अविनाशकारणत्वाच्च नभस इव न खण्डशो नाशः ॥ १॥ नाशे च सर्वनाशो जीवस्य न स च जिनमतत्यागः । ततश्चानिर्मोक्षो दीक्षावैफल्यदोषश्च ॥ २॥ ३ ग्राह्या मूर्तिगतत्वात् न आकाशे यथा प्रदीपरश्मयः । तथा जीवलक्ष
E
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org