________________
माणुस्स खित्त जाई कुल रूवारोग्ग आउयं बुद्धी। सवणुग्गह सद्धा संजमो अ लोगंमि दुलहाइं॥१५९॥
व्याख्या—'मानुष्यम्' मनुष्यभावः क्षेत्रम्' आर्य जातिः' मातृसमुत्था 'कुलं' पितृसमुत्थम् 'रूपम्' अन्यूनाङ्गता 'आरोग्यं' रोगाभावः 'आयुष्यं' जीवितं 'बुद्धिः' परलोकप्रवणा 'श्रवणं' धर्मसम्बद्धम् 'अवग्रहः' तदवधारणम् , अथवा श्रवणाः-तपखिनः तेषामवग्रहः-सुन्दरा एत इत्यवधारणं श्रवणावग्रहः, श्रद्धा संयमश्च प्राग्वत् , एतानि लोके दुर्लभानि, प्राक् चतुर्णा दुर्लभत्वमुक्तम् , इह तु मानुषत्वं क्षेत्रादीनामायुष्कपर्यन्तानामुपलक्षणं, श्रवणं च बुधवग्रहयोः, पुनश्च मानुषत्वादीनामिहाभिधानं विशिष्टक्षेत्रादियुक्तानामेवैषां मुक्त्यङ्गत्वमिति ख्यापनार्थम् , केचिदेतत्स्थाने पठन्ति "इन्दियलद्धी निवत्तणा य पजत्ति निरुवहय खेमं । धाणारोग्गं सद्धा गाहग उवओग अट्ठो य ॥१॥" 'इन्द्रियलब्धिः' पञ्चेन्द्रियप्राप्तिः 'निर्वर्तना च' इन्द्रियाणामेव निष्पादना 'पर्याप्तिः' समस्तपर्याप्तिता ‘णिरुवहय'त्ति निरुपहतम् , उपहतेरभावात् , सा च गर्भस्थस्य कुजत्वादिभिर्जातस्य च भित्त्यादिभिः, 'क्षेमम्' देशसौस्थ्यम् 'भ्राणम् ' सुभिक्षं विभवो वा 'आरोग्यम्' नीरोगता 'श्रद्धा' उक्तरूपा 'ग्राहकः' शिक्षयिता गुरुः 'उपयोगः' स्वाध्यायाधुपयुक्तता 'अर्थः' धर्मविषयमर्थित्वम् , एतानि दुर्लभानीति गम्यते, इह च पुनः श्रद्धाग्रहणं तन्मूलत्वादशेषकल्याणानां तस्या दुर्लभतरत्वख्यापनार्थमिति गाथार्थः ॥ १५९॥ यदुक्तं- मनुष्यादिभावाङ्गानि दुर्लभानि' इति, तत्र मानुष्याङ्गदुर्लभत्वसमर्थनाय दृष्टान्तमा(ताना)ह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org