________________
SAMUHARRIAL
| 'गुटिका' वटिका, अस्याः फलमाह-एषा तु हन्ति कण्डं तिमिरम् 'अवहेडयन्ति अर्द्धशिरोरोग समस्तशिरोव्यथं, 'तेइजगचाउत्थिग'त्ति सुब्लोपे तार्तीयीकचातुर्थिको, रूढ्या ज्वरो, 'मूषकसपोपराद्धम्' उन्दरादिदष्ट, चः समुच्चय इति गाथाद्वयार्थः ॥ १४९-१५० ॥ मद्याङ्गमाहसोलस दक्खा भागा चउरो भागा य धाउगीपुप्फे । आढगमो उच्छुरसे मागहमाणेण मजंगं ॥१५॥
व्याख्या-पोडश द्राक्षा भागाश्चत्वारो भागाश्च 'धातकीपुष्पे' धातकीपुष्पविषयाः 'आढगमोत्ति आर्षत्वादाऽऽ| ढककः 'इक्षुरसे' इक्षुरसविषये, आढकः इह केन मानेनेत्याह-'मागधमानेन' दो असती पसती उ' इत्यादिरूपेण || 'मद्याचं' मदिराकारणं भवतीति गाथार्थः ॥ १५१ ॥ आतोद्याङ्गमाह
एग मुगुंदा तूरं एगं अहिमारुदारुयं अग्गी । एगं सामलीपुंडं बद्धं आमेलओ होइ ॥ १५२ ॥ व्याख्या-'एकमुकुन्दा तूर्यम्' इति एकैव मुकुन्दा वादिनविशेषो गम्भीरखरत्वादिना तूर्यकार्यकारित्वात् तूर्यम् , अनेनास्याविशिष्टमातोद्याङ्गत्वमेवाह, किमेवैकैव मुकुन्दा तूर्यम् ?, सोपस्कारत्वाद्यथैकमभिमारस्य वृक्षविशेषस्य दारुककाष्ठमभिमारदारुकम् 'अग्निः' विशेषतोऽग्निजनकत्वाद्, यथा वा 'एकं शाल्मलीपोण्डं' शाल्मलीपुष्पं बद्धमामोडको | | १ द्वे असत्यौ प्रसूतिस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org