________________
उत्तराध्य.
बृहद्वृत्तिः
॥१४२॥
व्याख्या - तत्र 'जमदग्निजटा' वालकः 'हरेणुका' प्रियङ्गुः 'शबरनिवसनकं' तमालपत्रं, 'सपिण्णियं' ति पिन्निपि | न्निका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं, वृक्ष्यस्य च बाह्या त्वक् चातुर्जातका प्रतीतैव 'मल्लियवासियं'ति मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् 'अग्घेइ' त्ति अर्हति, कोटिमूल्याईं भवति, | महार्घतोपलक्षणं चैतत् ॥ १४६ ॥ तथा 'ओसी रं' प्रसिद्धं, 'हीबेरो' वालकः, पलं पलमनयोः, तथा 'भद्रदारीः ' | देवदारोः कर्षः, 'सयपुप्फाणं'ति वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य भाग इह पलिकामात्रम् ॥ १४७ ॥ अस्य माहात्म्यमाह - एतत् खानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया' चण्डप्रद्योतदुहित्रा 'कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्त्या' चेतसि वहन्त्या, अनेन परचित्ताक्षेपकत्वमस्य माहा - त्म्यमुक्तमिति सूत्रार्थः ॥ १४८ ॥ औषधाङ्गमाह -
| दुन्नि य रयणी माहिंदफलं च तिण्णि य समूसणंगाईं । सरसं च कणयमूलं एसा उदगट्टमा गुलिआ ॥ एसा उ हरइ कंडुं तिमिरं अवहेडयं सिरोरोगं । तेइज्जगचाउत्थिग मूसगसप्पावरद्धं च ॥ १५० ॥
व्याख्या - ' द्वे रजन्यौ' पिण्डदारुहरिद्रे 'माहेन्द्रफलं च' इन्द्रयवाः, त्रीणि च समूषणं- त्रिकटुकं तस्याङ्गानि - |सुण्ठीपिप्पलीमरिचद्द्रव्याणि, 'सरसं च' आर्द्र 'कनकमूलं' बिल्वमूलमेषा 'उदकाष्टमे 'त्युदकमष्टमं यखां सा तथा,
Jain Education International
For Personal & Private Use Only
चतुरङ्गीया
ध्ययनम्
॥१४२॥
www.jainelibrary.org