SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. मन्यतरद्विवक्षितम् , अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, सङ्ग्रहैककः येनकेनापि ध्वनिना बहवः संगृह्यन्ते, यथा जातिप्राधान्ये ब्रीहिरिति, पर्यायैककः शिवकादिरेककः पर्यायो, भावैककः औदयिकादिभावानामन्यतमो भाव इति गाथार्थः ॥ १४२ ॥ इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्क चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१४॥ निक्षेमुमाह णामं ठवणा दविए खित्ते काले य गणण भावे य।निक्खेवो य चउण्हं गणणसंखाइ अहिगारो ॥१४॥ ___ व्याख्या-तन्त्र नामस्थापने क्षणे. 'द्रव्ये विचार्य सचित्ताचित्तमिश्राणि व्याणि चतःसयतया विवक्षितानि. क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वारः समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्तःपातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकारः?, उच्यते, गणनासङ्ख्ययाऽधिकारः, किमुक्तं भवति ?-गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानांगण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः॥१४३॥ इदानीमङ्गनिक्षेपमाह णामंगं ठवणंगं दत्वंगं चेव होइ भावंगं । एसो खलु अंगस्सा णिक्खेवो चउविहो होइ ॥ १४४ ॥ ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy