________________
नमः श्रुतदेवतायै ॥ उक्तं परिषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने परीषहसहनमुक्तं तच किमालम्बनमुररीकृत्य कर्त्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अङ्गं च न चैकं विना चत्वार इत्येक | एव तावन्निक्षेपमईतीति मन्वान आह निर्युक्तिकृत् —
णामंठ वणादविए माउयपय संगहिक्कए चेव । पज्जव भावे य तहा सत्तेए इक्का हुंति ॥ १४२ ॥
व्याख्या - इहैककशब्दस्यैकत्र निर्दिष्टस्यापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैककः स्थापनैकको द्रव्यैककः, 'मा | उयपय'त्ति सुपो लोपान्मातृकापदैककः सङ्ग्रहैककः, 'चः' समुचये, एवेति पूरणे, 'पज्जव'ति प्राग्वत् पर्यवैककः 'भावे' भावैककः, 'चः' पूर्ववत्, तथे'ति शेषाणामपि निरुपचरितवृत्तितया तुल्यत्वमाह, उपसंहर्तुमाह- 'सप्तैते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवैकालिकनिर्युक्तावेव निर्युक्तिकृता कृतेत्यत्रोदासितं, स्थानाशून्यार्थे तु तदुक्तमेव किञ्चिदुच्यते-तत्र नामैकको यस्यैकक इति नाम, स्थापनैककः पुस्तकादिन्यस्त एककाङ्कः, द्रव्यैककः सचित्तादिखिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्रो वस्त्रादिविभूषितः पुरुषादिरेव, मातृकापदैककः 'उप्पण्णे इ वा विगमे इ वा धुवे इ वा' इति एषां मातृकाबत्सकलवाङ्मयमूलतयाऽवस्थिताना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org