________________
| दिहोदाहरणानां नियुक्तिकालादर्वा काल भावितेत्यन्योक्तत्वमाशङ्कनीयं स हि भगवांश्चतुर्द्दशपूर्ववित् श्रुतकेवली कालत्रयविषयं वस्तु पश्यत्येवेति कथमन्यकृतत्वाशङ्केति ॥ सम्प्रत्यध्ययनार्थोपसंहारमाह
एए परीसहा सबे, कासवेण पवेइया । जे भिक्खू ण विहण्णिज्जा, पुट्ठो केणइ कण्डुइ ॥ ४६ ॥ (सूत्रम् )
व्याख्या- 'एते' अनन्तरमुपदर्शितखरूपाः, 'परीपहाः' क्षुदादयः 'सर्वे' द्वाविंशतिसंख्या अपि न तु कियन्त एव 'काश्यपेन' श्रीमन्महावीरेण 'प्रवेदिताः ' प्ररूपिताः, 'जे'त्ति यानुक्तन्यायेन ज्ञात्वेति शेषः, 'भिक्षुः' यतिर्न चैव 'विहन्येत' पराजीयेत, कोऽर्थः ? - संयमात्पात्येत, 'स्पृष्टो' बाधितः केनापि प्रक्रमाद्वाविंशतेरेकतरेण दुर्जयेनापि परीषहेण 'कण्हुइ' त्ति कुत्रचित् देशे काले वा इति सूत्रार्थः ॥ ४६ ॥ इतिः परिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बूखामिनमाह । नयाः पूर्ववत् । इति श्रीशान्तिसूरिविरचितायां शिष्य हितायामुत्तराध्ययनटीकायां द्वितीयमध्ययनं समाप्तमिति ॥
Jain Education International
द्वितीयमध्ययनं समाप्तम् ॥
For Personal & Private Use Only
www.jainelibrary.org