________________
शब्दार्थः 'विहरतो' त्ति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म-ज्ञानावरणादिकर्म 'न निवर्त्तते' नापैतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः | अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकपोपलकल्पना (ता यामपि न दप मातमानसो भवेत्, किन्तु - 'पूर्व पुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः कथं खबुद्धधा मदं यान्ति १, ॥१॥' इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत् - 'रिट्ठयं' सूत्रद्वयम्, अक्षरगमनिका सैव, णवरं 'निरद्वयंमिवि' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपे रतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं 'साक्षात् ' समक्षं नाभिजानामि धर्म कल्याणं पापकं वा, अयमभिप्रायः - 'जे एगं जाणति से सबं जाणति (जे सबं | जाणति ) से एगं जाणति' इत्यागमात् छद्मस्थोऽहमेकमपि धर्म्म वस्तुखरूपं न तत्त्वतो वेद्मि ततः साक्षाद्भाव स्वभावावभासि चेन्न विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुखरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपउपधानादिभिरप्युपक्रमणहेतुभिः उपक्रमयितुमशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल ममाहङ्कारावसर इति सूत्रद्वयार्थः | ॥ ४२-४३ ॥ साम्प्रतमावृत्त्या पुनः सूत्रद्वारमङ्गीकृत्य प्रकृतसूत्रोपक्षिप्तमज्ञानसद्भाव उदाहरणमाहपरितंतो वायणाए गंगाकूले पिया असगडाए । संवच्छरेहऽ हिज्जइ बारसहि असंखयज्झणं ॥ १२१ ॥
१ य एक जानाति स सर्व जानाति यः सर्वं जानाति स एकं जानाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org