________________
परीषहाध्ययनम्
उत्तराध्य. व्याख्या-'समणं' श्रमणं सममनसंवा-तथाविधवधेऽपि धर्म प्रति प्रहितचेतसं, श्रमणश्च शाक्यादिरपि स्यादि
है त्याह-संयतं' पृथ्व्यादिव्यापादननिवृत्तं, सोऽपि कदाचिल्लाभादिनिमित्तं बाह्यवृत्त्यैव सम्भवेदत आह–'दान्तम्' बृहद्वृत्तिः
इन्द्रियनोइन्द्रियदमेन 'हन्यात्' ताडयेत् , 'कोऽपि' इति तथाविधोऽनार्यः 'कुत्रापि' ग्रामादौ, तत्र किं विधेयमित्याह॥११४॥ नास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभावः, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राभिधानाद् ,
है। इती'त्यस्माद्धेतोः न 'त'मिति घातकं प्रेक्षेत असाधुमर्हति यत्प्रेक्षणं भृकुटिभङ्गादियुक्तं तदसाधुवत्, किन्तु रिपुजयं प्रति सहायोऽयमितिधिया साधुवदेव प्रेक्षेतेति भावः, अथवा अपेर्गम्यमानत्वान्न तं प्रेक्षेतापि असाधुना
तुल्यं वर्तते इति असाधुवत्, किं पुनरपकारायोपतिष्ठेत् संक्लिश्नाति वा ?, असाधुर्हि सत्यां शक्तौ प्रत्यपकारायोपतिदाते असत्यां तु विकृतया दृशा पश्यति सङ्क्लेशं वा कुरुत इत्येवमभिधानं, पठ्यते च-'न य पेहे असाधुयं' ति
चकारस्यापिशब्दार्थस्य भिन्नक्रमत्वात् प्रेक्षेतापि न-चिन्तयेदपि न, काम् ?-'असाधुतां' तदुपरि द्रोहखभावतां, पठन्ति च-'एवं पेहिज्ज संजतो' इति सूत्रार्थः ॥ २७॥ अधुना वणेत्ति द्वारं, तत्र 'हतो न सवलेदि' त्यादि सूत्रमर्थतः स्पृशन्नुदाहरणमाहसावत्थी जियसत्तू धारणि देवी य खंदओ पुत्तो। धूआ पुरंदरजसा दत्ता सा दंडईरण्णो ॥ १११ ॥ मुणिसुव्वयंतेवासी खंदगपमुहा य कुंभकारकडे । देवी पुरंदरजसा दंडइ पालग मरूए य ॥ ११२ ॥
॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org