________________
मिक्खं हिंडतो सयणमारगोत्ति लोएणं अक्कोसिजइ णाणापगारेहिं अकोसेहि, सो सम्म सहइ, सहतस्स केवल-14 णाणं समुप्पण्णं ॥ एवमन्यैरपि साधुभिः आक्रोशपरीषहः सोढव्यः॥ कश्चिदाक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि |विदध्यादिति वधपरीषहमाह
हओण संजले भिक्खू, मणंपिणो पउस्सए। तितिक्खं परमंणच्चा, भिक्खुधम्ममि चिंतए॥२६॥(सूत्रम्) है व्याख्या-'हतः' यष्ट्यादिभिः ताडितो 'न सज्वलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदा
नादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत् , भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत, किन्तु 'तितिक्षा क्षमां-'धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥१॥' इत्यादिवचनतः 'परमां' धर्मसाधनं प्रति प्रकर्षवती 'ज्ञात्वा' अवगम्य 'भिक्षुधर्मे' यतिधर्म, यद्वा भिक्षुधर्म क्षान्त्यादिकं वस्तुखरूपं वा चिन्तयेत् , यथा-क्षमामूल एव मुनिधर्मः, अयं चास्मन्निमित्तं कर्मोपचिनोति, अस्मदोष एवायम् , अतो नेमं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेव प्रकारान्तरेणाहसमणं संजयं दंतं, हणिज्जा कोऽवि कत्थवि।नत्थि जीवस्स नासुत्ति, णतं पेहे असाहुवं ॥२७॥(सूत्रम्) १ भिक्षां हिण्डमानः स्वजनमारक इति लोकेनाक्रोश्यते नानाप्रकारैराक्रोशैः स सम्यक् सहते, सहमानस्य केवलज्ञानं समुत्पन्नम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org