________________
उत्तराध्य.
बृहद्वृत्तिः
॥१०३॥
यं से रती जाया, पुत्रं अरती आसि, पच्छा रती जाया || उत्पन्नसंयमारतेश्व स्त्रीभिरुपनिमन्त्रयमाणस्य तदभिलाष प्रादुःष्यादतस्तत्परीषहमाह
संगो एस मणुस्साणं, जाओ लोगंसि इत्थिओ । जस्स एया परिण्णाया, सुकडें तस्स सामपणं १६ (सूत्रम्) व्याख्या - सजन्ति - आसक्तिमनुभवन्ति रागादिवशगा जन्तवोऽत्रेति सङ्गः 'एषः' अनन्तरं वक्ष्यमाणो 'मनुष्याणां ' पुरुषाणां, तमेवाह - 'या' इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्चयो वा, 'लोगंसि' त्ति लोके तिर्यग्लोकादौ 'स्त्रियो' नार्यश्च एताश्च हावभावादिभिः अत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेषामेव मैथुनसंज्ञातिरेकः प्रज्ञापनादौ प्ररूपित इति, अतः | किमित्याह - 'यस्य' इति यतेः 'एताः ' स्त्रियः परीति - सर्वप्रकारं ज्ञाताः परिज्ञाताः, तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चागमः – “विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । णरस्सऽत्तगवेसिस्स, विसं तालउड जहा ॥ १॥" प्रत्याख्यानपरिज्ञया च तत एव च प्रत्याख्याताः, 'सुकडं' ति सुकृतं सुष्ठुनुष्ठितं, पाठान्तरतः -'सुकरं' वा सुखेनैवानुष्ठातुं शक्यं 'तस्स' त्ति सुब्व्यत्ययात्तेन 'सामण्णं'ति श्रामण्यं व्रतं, किमुक्तं भवति ? - १ तस्य रतिर्जाता, पूर्वमरतिरासीत्, पश्चाद्रतिर्जाता । २ विभूषा स्त्रीसंसर्गः प्रणीतरसभोजनम् । नरस्यात्मगवेषिणो विषं तालपुटं
यथा ॥ १ ॥
Jain Education International
For Personal & Private Use Only
परीषहा
ध्ययनम्र
२
॥१०३॥
www.jainelibrary.org