SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ च विशेषतस्तद्धेतुत्वाद्, उक्तं च-"अह कुणसि थुल्लवत्थाइएसु मुच्छ धुवं सरीरेऽवि । अक्केजदुल्लभतरे काहिसि मुच्छ विसेसेण ॥१॥" अथास्तु तन्निमित्तमेतत् , तर्हि चीवरवत्तस्यापि किं दुस्त्यजत्वेन मुक्त्यङ्गतया वा न प्रथमत एव हा परिहारः ?, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाञ्चिदेव ?, न तावदशेषपुरुषाणां, दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केषाञ्चित् , तदा वस्त्रमपि केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्य, मुक्त्यङ्गतापक्षाश्रयणे च किं चीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु खाध्यायाधुपष्टम्भकत्वेन मुक्त्यङ्गत्वाद् , अभ्युपगम्य च मू हेतुत्वमुच्यते-न हि निगृहीतात्मनां क्वचिन्मूर्छाऽस्ति, तदुक्तम्-"सर्वत्थुवहिणा बुद्धा, संरक्षणपरिग्गहे। अवि अप्पणोऽवि देहम्मि, णायरंति ममाइउं (यं)॥१॥" ति, नापि धारणादिमात्रेण,एवं हि शीतकालादौ प्रतिमाप्रतिपत्त्यादिषु केनचिद्भक्त्यादिनोपरि क्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र खयंग्रहाभावाददोषः, तर्हि खयंग्रहः परिग्रहत्वे हेतुः, तथा च कुण्डिकाद्यपि नोपादेयं, दृष्टेष्टविरोधि चेदम् , अथ तत्र मूर्छाया अभावादपरिग्रहत्वम् , एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु, १ अथ करोषि स्थूलवस्त्रादिषु मूर्छा ध्रुवं शरीरेऽपि । अक्रेयदुर्लभतरे करिष्यसि मूर्छा विशेषेण ॥ १॥ २ मू हेतुः शरीरं F३ सर्वत्रोपधिना बुद्धाः, संरक्षणपरिग्रहे । अपिचात्मनोऽपि देहे नाचरन्ति ममायितुम् (तम्)॥१॥ *************** Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy