SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जाति वा चेले विना वर्षादिनिमित्तमप्रावरणेन जीर्णादिवस्त्रतया वा 'अचेलक' इति अवस्त्रोऽपि भवति, पठ्यते च 'अचेलए सयं होइ'त्ति तत्र खयम्-आत्मनैव न पराभियोगतः, 'सचेलः' सवस्त्रश्चाप्येकदा स्थविरकल्पिकत्वे तथाविधालम्बनेनावरणे सति, यद्येवं ततः किमित्याह-'एतदि'त्यवस्थौचित्येन सचेलत्वमचेलत्वं च धर्मो-यतिधर्मः तस्मै हितम्-उपकारकं धर्महितं 'ज्ञात्वा' अवबुद्धय, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षादिभिः, यथोक्तम्-"पंचहि ठाणेहिं पुरिमपच्छिमाणं अरहन्ताणं भगवंताणं अचेलए पसत्थे भवइ, तं जहा-अप्पा पडिलेहा१, | वेसासिए रूवे २, तवे अणुमए ३, लाघवे पसत्थे ४, विउले इंदियनिग्गहे ५"त्ति, सचेलत्वस्य तु धर्मोपकारित्वमन्याद्यारम्भनिवारकत्वेन संयमफलत्वात् , 'ज्ञानी' नमा एव प्रायस्तियनारकाः तद्भवभयादेव च मया सन्त्यपि वासांस्यपास्यन्त इत्येवं बोधवानो परिदेवयेत् , किमुक्तं भवति ?-अचेलः सन् किमिदानीं शीतादिपीडितस्य मम शरणमिति न दैन्यमालम्बेत इति सूत्रार्थः ॥ १३ ॥ इह च केचिन्मिथ्यात्वाकुलितचेतस इदमित्थं महार्थकर्मप्रवादपूर्वोद्धृतप्रस्तुताध्ययनाधीतमपि सचेलत्वं तथा-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीव|रधारणम् ॥१॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्ट, मौढ्याद्धिंस्रो न सिद्धयति १ पञ्चभिः स्थानैः पूर्वपश्चिमयोरहतोर्भगवतोरचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्पा प्रत्युपेक्षा १ वैश्वासिकं रूपं २ तपोऽनुमतं ३ दालाघवं प्रशस्तं ४ विपुल इन्द्रियनिग्रहः ५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy