________________
उत्तराध्य.
चिन्तनादिशुभव्यापारैः, तस्मादिदमेव भावरूपत्वात् क्षपणाहेतुत्वाद्भावक्षपणेत्युच्यते इति प्रक्रमः । प्रकृतमुपसंहर्तु- अध्ययनम्
माह-'एतद्' इत्युक्तपर्यायाभिधेयं भावाध्ययनं 'नेतव्यं प्रापयितव्यम् 'आनुपूया' शिष्यप्रशिष्यपरम्परात्मिकायां, बृहद्वृत्तिः
यद्वा-'नेतव्यं संवेदनविषयतां प्रापणीयमानुपूर्व्या-क्रमेणेति गाथार्थः॥ ११॥ तदित्थमुत्तराध्ययनानीति व्याख्या
तम् , अधुना श्रुतस्कन्धयोनिक्षेप प्रत्यध्ययनं नामान्यर्थाधिकारांश्च वक्तुमवसर इति तदभिधानाय प्रतिज्ञामाहहै सुयखंधे निक्खेवं णामाइ चउविहं परूवेउं । णामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥ १२॥ है। व्याख्या-श्रुतं च स्कन्धश्चेति समाहारद्वन्द्वस्तस्मिन् निक्षेपं नामादयश्चत्वारो विधाः-प्रकारा यस्य स तथा तं* |'प्ररूप्य' प्रज्ञाप्य नामान्यधिकारांश्चाध्ययनानां प्रवक्ष्यामि इति गाथार्थः ॥ १३॥ इह च श्रुतस्कन्धनिक्षेपस्यान्यत्र सुप्रपञ्चितत्वात् प्रस्तावज्ञापनायैव श्रुतस्कन्धे निक्षेपं प्ररूप्येति नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत इति । स्थानाशून्यार्थ किञ्चिदुच्यते-तत्र श्रुतं नामस्थापनात्मकं क्षुण्णं, द्रव्यश्रुतं तु द्विविधम्-आगमनोआगमभेदात् , तत्र यस्य श्रुतमिति पदं शिक्षितादिगुणान्वितं ज्ञातं न च तत्रोपयोगः तस्य आगमतो द्रव्यश्रुतम्, 'अनुपयोगो द्रव्य'मिति वचनात्, नोआगमतस्तु श्रुतपदार्थज्ञशरीरं भूतभविष्यत्पर्यायं, तद्व्यतिरिक्तं च पुस्तकादिन्यस्तम् अभिधीयमानं वा, भावभुतहेतुतया द्रव्यश्रुतं, तथा चाह-"भूतस्य भाविनोवा भावस्य हि कारणं तु यल्लोके ।
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International