SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ तरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि-त्वगुरुधिरमांसमेदनायवस्थिशिराबणैः सुदुर्गन्धम् । कुचनयनजघनवद-18 नोरुमूञ्छितो मन्यते रूपम् ॥ १॥ तथा-निष्ठीवितं जुगुप्सत्यधरस्थं पिबति मोहितः प्रसभम् । कुचजघनपरिश्रावं | नेच्छति तन्मोहितो भजते ॥२॥ इत्यादिभावनातोऽभिधास्यमाननीतितश्च परिषदमाणत्वात्परीषहः स्त्रीपरीषहः ८, चरणं चर्या-ग्रामानुग्राम विहरणात्मिका सैव परीषहः चर्यापरीषहः ९, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैषेधिकी-स्मशानादिका खाध्यायादिभूमिःनिषद्येतियावत् सैव परीषहोनषेधिकीपरीषहः |१०, तथा शेरतेऽस्यामिति शय्या-उपाश्रयः सैव परीषहः शय्यापरीषहः११, आक्रोशनमाकोशः-असत्यभाषात्मकः स एव परीषहः आक्रोशपरीषहः १२, हननं वधः-ताडनं स एव परीपहो वधपरिषहः १३, याचनं याचा प्रार्थनेत्यर्थः, |सैव परीषहो याचापरीषहो १४, लभनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्राप्तिः स एव परीषहः अलाभपरीपहः १५, रोगः-कुष्ठादिरूपः स परीषहो रोगपरीषहः १६, तरन्तीति तृणानि, औणादिको नक् इखत्वं च, तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः १७, जल्ल इति मलः स एव परीषहो जल्लपरीषहः १८, सत्कारोवस्त्रादिभिः पूजनं पुरस्कारः-अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिह सत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः, ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः अज्ञानपरीपहश्च प्राग्भाविताौँ, नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा-खयंविमर्शपूर्वको वस्तुपरिच्छेदः, तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy