________________
|| तिण्हपि णेगमणओ परीसहो जाव उज्जुसुत्ताओ। तिण्हं सद्दणयाणं परीसहो संजए होइ ॥७॥ II व्याख्या-'त्रयाणामपि' अविरतविरताविरतविरतानां न तु विरतस्यैव नैगमनयः 'परीपहः' क्षुदादिरिति,
मन्यत इति शेषः, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्जराहेतोः सम्भवाद् , अनेकगमत्वेन चास्य सर्वप्रकारसङ्ग्राहित्वात् , 'जाव उज्जुसुत्ताउत्ति सोपस्कारत्वादस्यैवं यावजुसूत्रः, कोऽर्थः -सङ्ग्रहव्यवहारऋजुसूत्रा अपि त्राणामपि परीषहं मन्यन्ते, एकैकनयस्य शतभेदत्वेनैतद्भेदानामपि केषाञ्चित् परीषहं प्रति नैगमेन तुल्यमतत्वात् , 'त्रयाणां' त्रिसङ्ख्यानां, केषाम् ?-शब्दप्रधाना नयाः शब्दनयाः, शाकपार्थिवादिवत् समासः, तेषां-शब्दसमभिरूद्वैवम्भूतानां, मतेनेति शेषः, परीषहः 'संयते' विरते भवति "मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहा" (तत्त्वा० अ०९ सू०८) इति लक्षणोपेतनिरुपचरित
परीषहशब्दवृत्तेस्तत्रैव सम्भवादिति गाथार्थः ॥ ७० ॥ द्रव्यद्वारमधिकृत्य नयमतमाह६ पढमंमि अट्ट भंगा संगहि जीवो व अहव नोजीवो । ववहारे नोजीवो जीवदत्वं तु सेसाणं ॥७॥
व्याख्या-'प्रथम' प्रक्रमानैगमनये अष्टौ भङ्गाः, स हि "णेगेहिमाणेहिं मिणइत्तीणेगमस्स नेरुत्ती" इतिलक्षणादने१ नैकैर्मानैमिनोतीति नैगमस्य निरुक्तिः (आ० नि०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org