________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ६९ ॥
ते, अस्यायमाशयः - बहुविधायामपि वक्तव्यतायां क्रियात एव फलप्राप्तिः, तथाहि - तृप्त्यर्थी जलादिकमवलोकयन्नपि न यावत् पानादिक्रियायां प्रवृत्तस्तावत्तृप्तिलक्षणफलमवाप्नोति, अत एव सम्यग्ज्ञानमपि तदुपयोगितयैव विचार्यते, | तथा च तद्विचारप्रवृत्तैरुक्तम् - " न द्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यत" इति, आगमोऽप्येवमेवावस्थितः, यतस्तत्रापि क्रियाविकलं विफलमेव ज्ञानम्, उक्तं हि - " जहां खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥ १॥" यदि च ज्ञानमेव मुक्तिसाधनं | ज्ञानाविनाभाव्य नुत्तरदर्शनसम्पत्समन्वितानां दशार्हसिंहादीनामपि स्यात्, अथ चाधोगतिगामिन एवैते श्रूयन्ते यत | आह - "दसरसीहस्स य सेणियस्स, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणऽहरं गईं गया ॥ १ ॥ किञ्च यदि ज्ञानमेव मुक्तिकारणमिष्यते, तदा यदुच्यते- 'विहरति मुहूर्तकालं, देशोनां पूर्वकोटिं च' | इत्येतदपि विरुध्येत ज्ञानेषु निखिलवस्तुविस्तर परिच्छेद करूपतां विभ्रत् केवलज्ञानमेवोत्तममिति तत्समनन्तरमेव मुक्त्यवाप्तौ कथं विहरणसम्भवः ?, अतः सत्यपि ज्ञाने शैलेश्यवस्थाऽवाप्तौ सर्वसंवररूपक्रियाऽनन्तरमेव मुक्त्यवातिरिति क्रियाया एव मुक्तिकारणत्वं, प्रयोगश्चात्र- यद् यत्समनन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामथ्र्य
१ यथा खरश्चन्दनभारवाही भारस्य भागी नैव चन्दनस्य । एवमेव ज्ञानी चरणेन हीनों ज्ञानस्य भागी नैव सद्गतेः ।। १ ।। २ दशार्ह - सिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकिनः । अनुत्तरा दर्शनसंपद् तदा विना चारित्रेणाधमां गतिं गताः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
अध्ययनम्
१
॥ ६९ ॥
www.jainelibrary.org