SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ESTISSLOSHISHISEASOS स पुजसत्थे सुविनीयसंसए, मणोरुई चिट्टइ कम्मसंपया। तवोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइँ पालिया ॥४७॥ (सूत्रम्) व्याख्या-'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं-सकलजनश्लाघादिना पूजाह शास्त्रमस्वेति पूज्यशास्त्रः, विनीतस्य हि शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्यः शास्ता गुरुरस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्टु-अतिशयेन विनीत;-अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो-दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत्-परिषदखेति सुविनीतसंसत्कः, विनीतस्य हि खयमतिशयविनीतैव परिषद्धवति, 'मणोरई'त्ति मनसः-चेतसः प्रस्तावाद् गुरुसम्बन्धिनी रुचिः-प्रतिभासोऽस्मिन्निति मनोरुचिः, 'तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद्गुरूणामप्रीतिहेतुरिति, तथा 'कम्मसंपय'त्ति कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत्-सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हेतुत्वम्, अथवा मनोरुचितेव मनोरुचिता तिष्ठति-आस्ते कर्मणां-ज्ञानावरणादीनां सम्पद्-उदयोदीरणादिरूपा विभूतिः कर्मसम्पद् , अस्येति गम्यते, तदुच्छेदशक्तियुक्ततयाऽस्य प्रतिभासमानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्, पठ्यते च-'मणीरुईत्ति तत्र मनसो रुचिः-अभिलापोयसिं HARAKASLEX R ASHX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy