SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ | यथा-भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥४१॥ साम्प्रतं यथा निर-el पवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽहधम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥४२॥ (सूत्रम् ) | व्याख्या-धर्मेण-क्षान्त्यादिरूपेणार्जितम्-उपार्जितं धर्मार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति, 'ची पूरणे, विविधं विधिवद्वाऽवहरणमनेकार्थत्वादाचरणं व्यवहारस्तं-यतिकर्तव्यतारूपं, 'बुद्धैः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'त'मिति सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसम्बन्धात् सुब्व्यत्ययाच धर्मार्जितो बुद्धराचरितश्च यो व्यवहारस्तमाचरन्-कुर्वन् , विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत् , एवं च किमित्याह-गोम्' अविनीतोऽयमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति, यतिरिति गम्यते। यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनपेतो धो-न धर्मातिक्रान्तः, 'जियं च ववहारंति प्राकृतत्वाचस्य भिन्नक्रमत्वाजीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह, अत एव 'बुद्धैः' आचार्यैराचरितः सदा-सर्वकालं त्रिकालविषयत्वात् जीतव्यवहारस्य, य एवंविधो व्यवहारस्तं व्यवहार-प्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाचरन् 'गहीं' दण्डरुचिरयं निघृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति शेषः, न चायं निजक उपकारी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy