________________
MORRORSCORRORRECRef
थाऽविनयदोषसम्भवात् , अथवा 'पाए पसारिए वावित्ति पाठात् पादौ प्रसारितौ वाऽपि, कृत्वेति शेषः, एकारस्यालाक्षणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरूणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमेव सविशेषमाह
आयरिएहिं वाहितो, तुसिणीओ ण कयाइवि। पसायट्टी नियागट्टी, उवचि? गुरुं सया॥२०॥(सूत्रम्)| ___ व्याख्या-'आचार्यः' उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो'त्ति व्याहृतः-शब्दितः 'तुसिणीओ'त्ति तूष्णीकः तूष्णीशीलः 'न कदाचिदपि' ग्लानाद्यवस्थायामपि, भवेदिति गम्यते, किन्तु-'धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः ॥१॥' इति प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति | गुरव इति प्रेक्षितुम्-आलोचितुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः 'प्रसादार्थी' वा गुरुपरितोषाभिलाषी 'णिया-18 गट्ठी'त्ति पूर्ववत् , 'उपतिष्ठेत' मस्तकेनाभिवन्द इत्यादि वदन् सविनयमुपसत् , गुरुं 'सदा' सर्वकालमिति || सूत्रार्थः ॥२०॥ तथा| आलवंते लवंते वा, ण णिसीजा कयाइवि। चइत्ता आसणं धीरो, जओ जत्तं पडिस्सुणे॥२१॥ (सूत्रम्)
व्याख्या-आङिति ईपल्लपति-वदति 'लपति वा' वारं वारमनेकधा वाऽभिदधति 'न निषीदेत्' न निषण्णो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org