________________
प्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वात् इति गाथार्थः ॥ २ ॥ उत्तरस्यानेकविधत्वेन येनात्र प्रकृतं तदाहकमउत्तरेण पगयं आयारस्सेव उवरिमाइं तु । तम्हा उ उत्तरा खलु अज्झयणा हुंति णायव्वा ॥३॥
व्याख्या-क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, तेन प्रकृतम्-अधिकृतम् , Pइह च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचारा
गस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत एवाह-'आयारस्सेव उवरिमाइंति एवकारो भिन्नक्रमः, ततश्चाचारस्योपर्यव-उत्तरकालमेव 'इमानी'ति हृदि विपरिवर्तमानतया प्रत्यक्षाणि, पठितवन्त इति गम्यते, 'तुः' विशेषणे, विशेषश्चायं यथा-शय्यम्भवं यावदेष क्रमः, तदाऽऽरतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति, तम्हा उत्ति | 'तुः' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्माद् 'उत्तराणि' उत्तरश-| ब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणे वा, तत उत्तराण्येव 'अध्ययनानि' विनयश्रुतादीनि भवन्ति 'ज्ञातव्यानि' अवबोद्धव्यानि, प्राकृतत्वाच्च लिङ्गव्यत्यय इति गाथार्थः ॥३॥ आह-यद्याचारस्योपरि पठ्यमानत्वेनोत्तरा
SASARAMES
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org