________________
एवं सेसेसुवि इंदिएसु, 'अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य' इति सूत्रार्थः ॥ १५॥ किं पुनः परिभावय-18 नात्मानं दमयेदित्याह__वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंतो, बंधणेहि वहेहि य ॥१६॥(सूत्रम्)
व्याख्या-वरं प्रधानं 'मे' मया 'आत्मा' अभिहितरूपस्तदाधाररूपो वा देहः, 'दान्त' इति दमं ग्राहितः असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना?-'संयमेन' पञ्चाश्रवविरमणादिना, 'तपसा च' अनशनादिना, चशब्दो द्वयोरप्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः सम्यगज्ञानसमुच्चयार्थो वा, विपर्यये दोषद- शनायाह-'मा' प्राग्वत् , 'अहम्' इत्यात्मनिर्देशः, 'परैः' आत्मव्यतिरिक्तैः 'दम्मंतो'त्ति आर्षत्वाहमितः, कैः'बन्धनः' वर्धादिविरचितैर्मयूरबन्धादिभिः 'वधैश्च' लतालकुटादिताडनैः,अत्रोदाहरणं सेयणओ गंधहत्थी-अडवीए हत्थिजूहं महलं परिवसइ, तत्थ जूहवती जाए जाए गयकलभए विणासेइ, तत्थेगा करिणी आवण्णसत्ता चिंतेइ-जइ
कहंचि गयकलभतो जायइ, सोऽवि एतेण विणासिजिहित्तिकाउं लंगंती ओसरइ, जूहाहियेण जूहे छुब्भइ, पुणो 8| १ सेचनको गन्धहस्ती, अटव्यां हस्तियूथं महत् परिवसति, तत्र यूथपतिर्जातान् जातान् गजकलभकान् विनाशयति, तत्रैका करिणी
आपन्नसत्त्वा चिन्तयति-यदि कथञ्चिदू गजकलभको जायते (जनिष्यते) सोऽप्येतेन विनश्यते इतिकृत्वा शनैः शनैः(खञ्जन्ती)अवसर्पति, यूथाधिपेन यूथे क्षिप्यते, पुनरपसर्पति, ततो द्वितीयतृतीयदिवसे यूथेन मिलति, तत एकमृष्याश्रमपदं दृष्टं, सा तत्राश्रिता, परिचिताश्वानया
Jain Education
For Personal & Private Use Only
www.jainelibrary.org