SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् बृहद्वृत्तिः उत्तराध्य. दिट्ठो, हा ! दुडु कयंति संवेगमावण्णेण खामिओ ॥ एवं गुरुप्रसादात् चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्ति- रिति मत्वा मनोवाकायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनानन्तरेण च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचारिको विनय उक्त इति सूत्रार्थः ॥ १३॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याह णापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असच्चं कुविजा, धारिजा पियमप्पियं ॥१४॥(सूत्रम्) __व्याख्या-नापृष्टः' कथमिदम् ? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यागृणीयात्' वदेत् , तथाविधं कारणं विना, 'किञ्चित् स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं 'वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भसितोऽपि न तावत् क्रुध्येत् , कथञ्चिदुत्पन्नं वा क्रोधम् 'असत्यं तदोत्पन्नकुविकल्पविफलीकरणेन 'कुर्वीत' विदध्यात् , कथम् ? धारयेत्' स्थापयेत् , मनसीति शेपः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया ४ अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धन वाचा यथा गुरुरनुवर्तनीयः दातथोक्तमुत्तरार्धेन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकपायं चोत्पन्नमसत्यं कुर्वीत, क्रोधासत्यतायामुदाहरणसम्प्रदायःकस्सवि कुलपुत्तयस्स भाया वेरिएण वावाइओ, तओ सो जणणीए भण्णइ-पुत्त ! पुत्तघाययं घायसुत्ति, तओ सो १ कस्यापि कुलपुत्रकस्य भ्राता वैरिणा व्यापादितः, ततः स जनन्या भण्यते-पुत्र ! पुत्रघातकं घातयेति, ततः स तेन जीवग्राह ॥५०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy