________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
ग्रासैषणायां प्रमाणदोषः
॥१७॥
व्याख्यानमाह-भुक्ते यद्वाऽतृप्यन् एष 'अइप्पमाण' इत्यस्य शब्दस्यार्थः, 'अइप्पमाणे' इत्यत्र च नमत्ययस्ताच्छील्यविवक्षायां या प्राकृतलक्षणवशादिति । सम्प्रति प्रमाणयुक्तहीनहीनतरादिभोजने गुणमाहहियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ ६४८॥
व्याख्या-हितं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽविरुद्धानि द्रव्याणि, भावत एषणीयं, तदाहारयन्ति ये ते हिताहाराः, 'मितं ' प्रमाणोपेतमाहारयन्तीति मिताहाराः, द्वात्रिंशत्कवलप्रमाणादप्यल्पमल्पतरं वाऽऽहारयन्तीत्यल्पाहाराः, सर्वत्र वा बहुव्रीहिः, हित आहारो येषां ते हिताहारा इत्यादि, एवंविधा ये नरास्तान् वैद्या न चिकित्सन्ति, हितमितादिभोजनेन तेषां रोगस्यैवासम्भवात् , किन्त्वेवं मूलत एव रोगोत्थानप्रतिषेधकरणेनात्मनैवात्मनस्ते चिकित्सिकाः । साम्पतमहितहितस्वरूपमाह
तेल्लदहिसमाओगा अहिओ खीरदहिकंजियाणं च । पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स ॥ ६४९ ॥ ___व्याख्या-दधितैलयोस्तथा क्षीरदधिकाञ्जिकानां च यः समायोगः सोऽहितः, विरुद्ध इत्यर्थः, तथा चोक्तम्-" शाकाम्लफलपिण्याककपित्थलवणैः सह । करीरदधिमत्स्यैश्च, प्रायः क्षीरं विरुध्यते ॥ १॥" इत्यादि, अविरुद्धद्रव्यमीलनं पुनः पथ्यं, तच्च 'रोगहरं' प्रादुर्भूतरोगविनाशकरं, न च भाविनो रोगस्य ' हेतु:' कारणम् , उक्तं च-"अहिताशनसम्पर्कात, सर्वरोगोद्भवो यतः। तस्मात्तदहितं त्याज्यं, न्याय्यं पथ्यनिषेवणम् ॥१॥" साम्पतं मितं व्याचिख्यासुराह
अद्धमसणस्स सध्वंजणरस कुज्जा दवस्स दो भागे। वाऊपवियारणट्ठा छब्भायं ऊणयं कुज्जा ॥६५॥
॥१७४॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org