SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ खण्डसम्मिश्रो घृतविन्दुर्भूमौ निपतितः, ततो भगवान् धर्मयोवो मुक्तिरदैकनिहितमानसो जलधिरिव गम्भीरो मेरुरिव निष्पकम्पो वसुधैव सर्वसहः शङ्ख इव रागादिभिररञ्जनो महासुभट इव कर्मरिपुविदारणनिबद्धकक्षो भगवदुपदिष्टभिक्षाग्रहणविधिविधानकृतोद्यमो भिक्षेयं छर्दितदोषदुष्टा तस्मान्न मे कल्पते इति परिभाव्य ततो निर्जगाम, वारत्तकेन चामात्येन मत्तवारणस्थितेन दृष्टो भगवान् निर्गच्छन्, चिन्तयति च स्वचेतसि-किमनेन भगवता न गृह्यते स्म मे गृहे भिक्षेति ?, एवं च यावञ्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तं घृतबिन्दु मक्षिकाः समागत्याशिश्रियन् , तासां च भक्षणाय प्रधाविता गृहगोधिका, गृहगोधिकाया अपि वधाय प्रधावितः सरटः सरटस्यापि च भक्षणाय प्रधावति स्म मार्जारी, तस्या अपि च वधाय प्रधावितः प्राघूर्णकः श्वा, तस्यापि च प्रतिद्वन्द्वी प्रभावितोऽन्यो वास्तव्यः श्वा, ततो द्वयोरपि तयोः शुनोरभूत् परस्परं कलहः, ततः स्वस्वसारमेयपराभवदूनमनस्कतया प्रधावितयोयोरपि तत्स्वामिनोजारभूत परस्परमस्यसि युद्धम्, एतच्च सर्व वारत्तकामात्येन परिभावितं, ततश्चिन्तयति स्वचेतसि-घृतादेबिन्दुमात्रेऽपि भूमौ निपतिते यत | एवमधिकरणप्रवृत्तिः अत एवाधिकरणभीरुभगवान् घृतबिन्दु भूमौ निपतितमवलोक्य भिक्षा न गृहीतवान् , अहो ! सुदृष्टो भगवता धर्मः, को हि नाम भगवन्तं सर्वज्ञमन्तरेणेत्थमनपायिनं धर्ममुपदेष्टुमीशः ?, न खल्वंधो रूपविशेष जानाति, एवमसर्वज्ञोऽपि नेत्थं सकलकालमनपायं धर्ममुपदेष्टुमलं, तस्माद्भगवानेव सर्वज्ञः, स एव च मे जिनो देवता, तदुक्तमेवानुष्ठानं मयाऽनुष्ठातव्यमित्यादि विचिन्त्य संसारविमुखप्रज्ञो मुक्तिवनिताश्लेषसुखलम्पटः सिंह इव गिरिकन्दराया निजप्रासादाद्विनिर्गत्य धर्मघोषस्य साधोरुपकण्ठं प्रव्रज्यामग्रहीत, स च महात्मा शरीरेऽपि निःस्पृहो यथोक्तभिक्षाग्रहणादिविधिसेवी संयमानुष्ठानपरायणः स्वाध्यायभावितान्तःकरणो दीर्घकालं संयममनुपाल्य जातप्रतनुकर्मा समुच्छलितदुनिर्वार्यवीर्यप्रसरः क्षपकश्रेणिमारुह्य घातिकर्मचतुष्टयं समूलघातं हत्वा, केवलज्ञानलक्ष्मीमासा dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy