SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ एषणाया लिप्तछ पिण्डनियु सचित्तमध्ये कदाचिदचित्ते कदाचिन्मिश्रे, तत एवं छईने सचित्ताचित्तमिश्रद्रव्याणामाधारभूतानामाधेयभूतानां च संयोगतश्चतुर्भङ्गी केमलयगि भवति, अत्र जातावेकवचनं, ततोऽयमर्थः-तिस्रश्चतुर्भङ्गयो भवन्ति, तद्यथा-सचित्तमिश्रपदाभ्यामेका, सचित्ताचित्तपदाभ्यां द्वितीया, रौयावृत्तिः मिश्राचित्तपदाभ्यां तृतीया, तत्र सचित्ते सचित्तं छर्दितं मिश्रे सचित्तं सचित्ते मिश्रं मिश्रे मिश्रमिति प्रथमा, सचित्ते सचित्तम् अचित्ते ॥१६॥ सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति द्वितीया, मिश्रे मिश्रम् अचित्ते मिश्रं मिश्रेऽचित्तम् अचित्तेऽचित्तमिति तृतीया, सर्वसख्यया द्वादश भङ्गाः, सर्वेषु च भङ्गेषु सचित्तः पृथिवीकायः सचित्तपृथिवीकायमध्ये छर्दित इत्यादिरूपतया स्वस्थानपरस्थानाभ्यां पत्रिंशत् षट्त्रिंशद्विकल्पाः, ततः पत्रिंशद्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु च सर्वेषु भङ्गले प्रतिषेधो-भक्तादिग्रहणनिवारणं, यदि पुनर्ग्रहणं कुर्यात्ततः 'आज्ञादयः ' आज्ञाऽनवस्थामिथ्यात्वविराधनारूपा दोषाः । इह ' आद्यअन्तग्रहणे मध्यस्यापि ग्रहण 'मिति न्यायादौदेशिकादिदोषदुष्टानामपि भक्तादीनां ग्रहणे आज्ञादयो दोपा द्रष्टव्याः । सम्पति छर्दित ग्रहणे दोषानाह। उसिणस्स छडणे देतओ व डज्झेज्झ कायदाहो वा । सीयपडणंमि काया पडिए महुबिंदुआहरणं ॥ ६२८ ॥ व्याख्या-उष्णस्य द्रव्यस्य 'छर्दने' समुज्झने ददमानो वा भिक्षा दह्यते, भूम्याश्रितानां वा 'कायानां' पृथिव्यादीनां दाहः स्यात्, शीतद्रव्यस्य भूमौ पतने भूम्याश्रिताः 'कायाः पृथिव्यादयो विराध्यन्ते, तत्र पतिते मधुबिन्दुदाहरणं-वारत्तपुरं नाम नगरं, तत्राभयसेनो नाम राजा, तस्यामात्यको वारत्तकः, अन्यदा चात्वरितमचपलमसम्भ्रान्तमेषणासमितिसमेतो धर्मघोषनामा संयतो भिक्षामहस्तस्य गृहं प्राविक्षत् , तद्भार्या च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपायसभृतं स्थालमुत्पाटितवती, अत्रान्तरे च कथमपि ततः ॥१६९॥ dan Education For Personal & Private Use Only w.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy