________________
व्याख्या-इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति, तच्च कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषु कदाचिन्मिश्रेषु, क्षेपणं चा संहरणमुच्यते, ततः संहरणे सचिचाद्यधिकृत्य चतुर्भङ्गी, अत्र जातावेकवचनं, तिस्रश्चतुर्भङ्गयो भवन्तीत्यर्थः, तथाहि-एका-चतुर्भङ्गी सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, मिश्राचित्तपदाभ्यां तृतीयेति, तत्र सचित्ते सचित्तं संहृतं मिश्रे सचित्तं सचित्ते मिश्र मिश्रे मिश्रमिति प्रथमा चतुर्भङ्गी, तथा सचित्ते सचित्तं संहृतम्, अचित्ते सचित्तं, सचित्तेऽचित्तम् , अचित्तेऽचित्तमिति द्वितीया, तथा मिश्रे मिश्रं संहृतम् , अचित्ते मिश्र, मिश्रेऽचित्तम् , अचित्तेऽचित्तमिति तृतीया। अत्र गाथापर्यन्ततुशब्दसामर्थ्यात्प्रथमचतुर्भङ्गीकायाः सर्वेष्वपि भङ्गेषु प्रतिषेधः, द्वितीयतृतीयचतुर्भङ्गीकयोस्तु 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गेषु प्रतिषेधः, चरमे भजना । अधुना चतुर्भङ्गीत्रयसत्कावान्तरभङ्गकथनेऽतिदेशमाह| जह चेव उ निक्खित्ते संजोगा चेव होति भंगा य । तह चेव उ साहरणे नाणत्तमिणं तइयभंगे॥ ५६४॥
व्याख्या-यथैव 'निक्षिप्ते' निक्षिप्तद्वारे सचित्ताचित्तमिश्रपदानां संयोगाः कृताः, यथैव च सचित्तपृथिवीकायः सचित्तपृथिवीका-1 || यस्योपरि निक्षिप्त इत्येवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भने षट्त्रिंशत् षट्त्रिंशद्भमा उक्ताः, सर्वसङ्खचया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानां, तथाऽत्रापि संहृतद्वारे द्रष्टव्या, तथाहि-प्रागिवात्रापि चतुर्भङ्गीत्रयमेकैकस्मिंश्च भङ्गे सचित्तः पृथिवीकायः सचित्तपृथिवीकायमध्ये संहृत इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् षट्त्रिंशद्भङ्गाः, सर्वसङ्ख्यया भङ्गानां चत्वारि शतानि | द्वात्रिंशदधिकानि । नवरं द्वितीयतृतीयचतुर्भङ्गिकयोः प्रत्येकं तृतीये तृतीये भनेऽनन्तरपरम्परमार्गणाविधी नितिद्वारादिदं वक्ष्यमाणं
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org