________________
व्याख्या – कुसुमपुरे नगरे चन्द्रगुप्तो नाम राजा, तस्य मन्त्री चाणक्यः, तत्र च जङ्घावल परिहीणाः सुस्थिताभिवाः सूरयः, अन्यदा च तत्र दुर्भिक्षमपप्तत्, ततः सूरिभिचिन्तितम् - अनुं समृद्धाभिधानं शिष्यं सूरिपदे संस्थाप्य सकलगच्छसमेतं सुभिक्षे कापि प्रेपयामि, ततस्तस्मै योनिप्राभृतमेकान्ते व्याख्यातुमारब्धं तत्र च क्षुल्लकद्वयेन कथमप्यदृश्यीकरणनिबन्धनमञ्जनं व्याख्यायमानं शुश्रुवे, यथा अनेनाञ्जनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिप्राभृतव्याख्यानसमर्थनानन्तरं च समृद्धाभिवोऽन्तेवासी सूरिपद स्थापितः, मुत्कलितश्च सकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः, कतिपयदिनानन्तरं चाऽऽचार्यस्नेहतस्तत् क्षुल्लकद्वयमाचार्य - समीपे समाजगाम, आचार्या अपि यत्किमपि भिक्षया लभन्ते तत्समं विरिच्य ( परिभाव्य ) क्षुल्लकद्वयेन सह भुञ्जते, तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत्, ततश्चिन्तितं क्षुलकद्वयेन - अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जाबदे इति, तथैव कृतं, ततश्चन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता, चाणक्येन पृष्टं किं ते शरीरदौर्बल्यं ?, स प्राह-परिपूर्णाहारालाभतः, ततश्चाणक्येन चिन्तितम् - एतावत्याहारे परिवेष्यमाणे कथमाहारस्यापरिपूर्णता?, तन्नूनमञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह मुझे, ततस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्ण इष्टकाचूर्णो विकर्णो, दृष्टानि मनुष्यपदानि ततो निश्चिक्ये नूनं द्वौ पुरुषावञ्जनसिद्धावायातः, ततो द्वारं पिधाय मध्येऽतिवहलो धूमो निष्पादितः धूमवाधितनयनयोश्च तयोरञ्जनं नयनाश्रुभिः सह विगलितं, ततो बभूवतुः प्रत्यक्षौ क्षुल्लकौ, कृता चन्द्रगुप्तेनात्मनि जुगुप्सा - अहो ! विटाळितोऽहमाभ्यामिति ततञ्चाणक्येन तप समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थं च प्रशंसितो राजा - यथा धन्यस्त्वमसि यो वालब्रह्मचारिभिर्यतिभिः पवित्रीकृत इति, ततो वन्दित्वा मुस्कलितौ द्वावपि क्षुल्लकौ, चाणक्येन रजन्यां वसतावागत्य सूरय उपालब्धाः - यथैतौ युष्मत्झुलकावडाहं कुरुतः ?, ततः सूरिभिः स एवोपालयः - पथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org