________________
व्याख्या-आधाकर्म समभेदम्, १ 'ओदेशिकस्य' विभागौदेशिकस्यान्त्यभेदत्रयं २ तथा 'पूतिः' भक्तपानरूपा ३ 'मिश्रजातं' पाषण्डिगृहमिश्रसाधुगृहमिश्ररूपं ४ बादरा प्राभृतिका ५ अध्यवपूरकस्य च 'चरमद्रिकं' स्वगृहपाषाण्डमिश्रस्वगृहसाधुमिश्ररूपम् | ६, एते उद्गमदोषा अविशोधिकोटिः । अनया चाविशोधिकोट्या अवयवेन स्पृष्टं शुद्ध भक्तं यद्दोषदुष्टं भवति तं दोषमाह__उग्गमकोडी अवयव लेवालेवे य अकयए कप्पे । कंजियआयामगचाउलोयसंसहपईओ॥ ३९४ ॥
व्याख्या-उद्गमकोट्याः' उद्गमदोषरूपाया अविशोधिकोव्या 'अवयवेन' शुष्कसिक्थादिना तथा 'लेपेन' तक्रादिना 'अलेपेन' चल्लचणकादिना संस्पृष्टं यद्भक्तं तस्मिन्नुज्झितेऽपि यत् अकृते कल्पे-अकृतकल्पत्रये इत्यर्थः पात्रे यत्पश्चात्परिगृह्यते तत्पूतिरवगन्तव्यम् । इह कश्चिन्मतिदौर्बल्यादित्थं विकल्पेत-यथा यदेव साधूनाधाय निर्वर्तितं तदेवैकमोदनमाधाकर्म भवति, न शेषमवश्रावणकाञ्जिकादि, नतस्तत्संस्पृष्टं पूतिन भवतीति ततस्तदभिमायनिराकरणार्थमाह-'कंजि' इत्यादि, इह साध्वर्थमोदनेऽभिनिवर्त्यमाने यत्तत्सक काञ्जिकादि तदप्याधाकमैव, तदवयवरूपत्वात् , ततः काञ्जिकेनाऽऽयामेन-अवश्रावणेन चाउलोदकेन च यत्संस्पृष्टं तदपि पूतिर्भवति । एतदेव पकत्रयेण भाष्यकृयाख्यानयति
सुक्केणऽवि जं छिक्कं तु असुइणा धोवए जहालोए। इह सुक्केणऽवि छिकं धोवइ कंमेण भाणं तु ? ॥ (भा० ३७) लेवालेवत्ति जं वुत्तं, जंपि दव्वमलेवडं । तंपि घेत्तुं ण कप्पंति, तक्काइ किमु लेवडं ? ॥ (भा० ३८)
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org