________________
र्थिनः पापण्डिनः साधून् वा समागतानवगम्य तेषामोंयाधिकतरं जळतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति मिश्रजातादस्य भेदः। अमुमेव भेदं दर्शयति
तंडुलजलआयाणे पुप्फफले सागवेसणे लोणे । परिमाणे नाणत्तं अज्झोयरमीसजाए य ॥ ३८९ ॥
व्याख्या-इह 'व्यत्ययोऽप्यासा'मिति वचनात्सप्तमी यथायोग षष्ठयर्थे तृतीयार्थे च वेदितव्या, ततोऽयमर्थः-अध्यवपूरकस्य मिश्रजातस्य च परस्परं नानात्वं तण्डुलजलपुष्पफलशाकवेसनलवणानाम् 'आदाने' आदानकाळे यत् विचित्रं परिमाणं तेन द्रष्टव्यं, तथाहि मिश्रजाते प्रथमत एव स्थाल्यां प्रभूतं जलमारोप्यते, अधिकतराश्च तण्डुलाः कण्डनादिभिरुपक्रम्यन्ते, फलादिकमपि च प्रथमत एव प्रभूततरं संरभ्यते, अध्यवपूरके तु प्रथमतः स्वार्थ स्तोकतरं तण्डुलादि गृह्यते, पश्चाद्यावदर्थिकादिनिमित्तमधिकतरं तण्डुलादि प्रक्षिप्यते, तस्मात्तण्डुलादीनामादानकाले यद्विचित्रं परिमाणं तेन मिश्राध्यवपूरकयो नात्वमवसेयं । सम्पत्यध्यवपूरकस्य कल्प्याकल्प्यविधिमाह
जावंतिए विसोही सघरपासंडि मीसए पूई । छिन्ने विसोही दिन्नंमि कप्पइ न कप्पई सेसं ॥ ३९० ॥ व्याख्या-'यावदर्थिके' यावदर्थिकमिश्रेऽध्यवपूरके शुद्धभक्तमध्यपतिते यदि तावन्मात्रमपनीयते ततो विशोधिर्भवति, अत एव च स्वगृहयावदार्थकमिश्रोऽध्यवपूरको विशोधिकोटिर्वक्ष्यते, स्वगृहपापण्डिमिश्रे उपलक्षणमेतत् स्वगृहसाधुमिश्रे च शुद्धभक्तमध्यपतिते पूतिर्भवति, सकलमपि तद्भक्तं पूतिदोषदुष्टं भवतीत्यर्थः, तथा विशोधिकोटिरूपे यावदर्थिकाध्यवपूरके छिन्ने यावन्तः कणाः कार्पटिकाद्यर्थ पश्चाक्षिप्ताः तावन्मात्रे स्थाल्याः पृथक्कृते सति यद्वा तावन्मात्रे कार्पटिकादिभ्यो दत्ते सति शेषमुद्धरितं यद्भक्तं तत्साधूनां कल्पते, शेषं पुनः
Jain Education International
For Personal & Private Use Only
mjainelibrary.org