________________
योऽपि च यस्य निमित्तं छिन्नः स स्वस्वस्वामिभिरनुज्ञातोऽन्येन दीयमानः स्वस्वस्वामिभिरदृष्टो दृष्टो वा कल्पते, 'इयरो उण'त्ति इतर एतदयतिरिक्तः तु:-पुनरर्थे छिन्नोऽछिन्नो वा स्वस्वस्वामिभिरननुज्ञातोऽदृष्टो दृष्टो वा न कल्पते, प्रागुक्तग्रहणादिदोषसम्भवात, अयं च विधिः साधारणानिसृष्टेऽपि वेदितव्यः । तथा चैतदेव गाथार्दैन प्रतिपादयति
___अणिसिट्ठमणुन्नायं कप्पइ घेत्तुं तहेव अद्दिढं । व्याख्या-अनिसृष्टं-साधारणानिसृष्टं पूर्व स्वस्वामिभिः सर्वैरननुज्ञातमपि यदि पश्चादनुज्ञातं भवति तहि कल्पते तद्भहीतुं । तथाऽनुज्ञातं सत् सर्वैः स्वामिभिरन्यत्रगतत्वादिना कारणेनादृष्टमपि ग्रहीतुं कल्पते, दोषाभावात् । सम्पति हस्तिनश्चुल्लकानिसृष्टं गायोत्तरार्द्धन भावयति
जड्डस्स य अनिसिटुं न कप्पई कप्पइ अदिळं ॥ ३८६॥ व्याख्या-हस्तिनो भक्तं मिण्ठेनानुज्ञातमपि राज्ञा गजेन चानिसृष्टम्-अननुज्ञातं न कल्पते, वक्ष्यमाणग्रहणादिदोषप्रसङ्गात, तथा मिण्ठेन स्वलभ्यं भक्तं दीयमानं गजेनादृष्टं कल्पते, गजदृष्टग्रहणे तु वक्ष्यमाणोपाश्रयभङ्गादिदोषप्रसङ्गः। अस्यैव विधेरन्यथाकरणे दोषानाह
निवपिंडो गयभत्तं गहणाई अंतराइयमदिन्नं । डुंबस्स संतिएवि हु अभिक्ख वसहीएँ फेडणया ॥ ३८७ ॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org