________________
णिभद्रप्रमुखै राक्रान्तं साधुमवलोक्य सञ्जातशङ्करभाणि-दर्शय निजभाजनं साधो ! येन प्रेक्षामहे, साधुश्च न दर्शयति, ततो बलात्मलोकितं, दृष्टा मोदकाः, ततः कोपारुणलोचनैः साधिक्षेप रक्षकपुरुषः पृष्टः-यथा कि भोः ! त्वयाऽस्मै सर्वेऽपि मोदका दत्ताः?, स भयेन कम्पमानोऽवोचत्-न मया दत्ताः, एवं चोक्ते माणिभद्रादिभिः साधुरूचे-चौरस्त्वं पाप साधुवेषबिडम्बकः 'सहोढ' इति सलोपत्र इदानीं प्राप्तोऽसि ? कुतस्ते मोक्ष इति गृहीतो वस्त्राञ्चले?, कर्षितो बहुना, ततः पश्चात्कृत इति गृहीत्वा सकलमपि पात्ररजोहरणादिकमुपकरणं गृहस्थीकृतः, ततः 'उड्डाह ' इति नीतो राजकुलं, कथितो धर्माधिकरणिकानां, पृष्टश्च तैः साधुश्च न किमपि लज्जया वक्तुं शक्तवान्, ततस्तैः परिभावितं-नूनमेष चोर इति, परं साधुवेषधारीतिकृत्वा पाणैर्मुक्तो निर्विषयश्चाऽऽज्ञापितः, एवमत्र भावना-अनायके दातरि एतेऽनन्तरोक्ता ग्रहणकर्षणादयो दोषा भवन्ति, 'पहुंमिति तृतीयार्थे सप्तमी, यथा 'तिसु तेसु अलंकिया पुहवी' इत्यत्र, ततोऽयमर्थःतस्मात् 'प्रभुणा' नायकेन दत्ते सति साधुना ग्रहणं भक्तादेः कर्त्तव्यं, तत्राप्याच्छेद्यादिकं सम्यक् परिहर्त्तव्यमिति । उक्तं सोदाहरणं मोदकद्वारम् , अधुना शेषाण्यपि द्वाराण्यतिदेशेन व्याख्यानयति
एमेव य जंतंमिवि संखडि खीरे य आवणाईसं । सामन्नं पडिकलु कप्पइ घेत्तुं अणुन्नायं ॥ ३८२॥
व्याख्या-'एवमेव' मोदकोदाहरणप्रकारेण यन्त्रेऽपि सङ्खड्यामपि क्षीरे चाऽऽपणादिषु च यत् 'सामान्य साधारणं तत् स्वामिभिः सर्वैरप्यनिसृष्टं सत् प्रतिक्रुष्टं तीर्थकरगणधरैः, अनुज्ञातं पुनः सर्वैरपि स्वामिभिः कल्पते ग्रहीतुं, तत्र दोषाभावात् । सम्पति चुल्लकद्वारस्य प्रस्तावनां चुल्लकस्य भेदं च प्रतिपादयति
चुल्लत्ति दारमहुणा बहुवत्तव्वंति तं कयं पच्छा । वन्नेइ गुरु सो पुण सामिय हत्थीण विन्नेओ ॥ ३८३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org