________________
नतः साधर्मिका भावनातश्च समानदर्शनभावनाकाः साधुश्रावकाः, न दर्शनतो नापि भावनातो विसदृशदर्शनभावनाकाः साधुश्रावकनिवाः, अत्र चतुर्वपि भङ्गेषु कल्प्याकल्प्यविधिः प्रागिव । तदेवं दर्शनविषया अपि चतस्रश्चतुर्भङ्गिका उक्ताः, सम्पति ज्ञानस्य चारित्रादिभिः सह वक्तव्याः, ताश्चातिदेशेनाह
नाणेणऽवि नेजेवं व्याख्या-यथा दर्शनेन सह चतस्रश्चनुर्भङ्गिका उक्ताः एवं ज्ञानेनापि सह चारित्रादीनि पदान्यधिकृत्य तिस्रश्चतुर्भगिका भावनीयाः। अतीवेदं सङ्क्षिप्तमुक्तमतः स्पष्टं विवियते-ज्ञानचरणयोरियं चतुभेङ्गिका, ज्ञानतः साधर्मिका न चरणतः, चरणतः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मि काश्चरणतश्च, न ज्ञानतोऽपि नापि चरणतः । तत्र ज्ञानतः साधर्मिका न चरणतः, समानज्ञानाः श्रावका विसदृशचरणसमानज्ञाना यतयश्च, अत्र श्रावकाणामथोय कृतं कल्पते न यतीनां १, चरणतः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानचरणा यतयः, अत्र न कल्पते २, ज्ञानतः साधमिकाश्चरणतश्च समानज्ञानचरणा यतयः, अत्रापि न कल्पते ३, न ज्ञानतो नापि चरणतो विसदृशज्ञानचरणा यतयो विसदृशज्ञानाः श्रावका निवाश्च, अत्र श्रावकनिहवानामर्थाय कृतं कल्पते न यतीनां ४, ज्ञानाभिग्रहयोरियं चतुर्भङ्गिका-ज्ञानतः साधर्मिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मिका अभिग्रहतश्च, न ज्ञानतो नाप्यभिग्रहतः । तत्र ज्ञानतः साधर्मिका नाभिग्रहतः समानज्ञाना विसदशाभिग्रहाः साधुश्रावकाः, अत्र श्रावकाणामर्थाय कृतं कल्पते न साधूनाम् १, अभिग्रहतः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानाभिप्रहाः साधुश्रावकाः समानाभिग्रहा निवाश्च, अत्रापि श्रावकनिह्नवानामर्थाय | कृतं कल्पते न साधूनां २, ज्ञानतः साधर्मिका अभिग्रहतश्च समानज्ञानाभिग्रहाः साधुश्रावकाः, अत्र कल्प्याकल्प्यविधिः प्रथमभङ्ग इव ३,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org