________________
उपासक
दशा
॥ ११॥
परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्याद ?|
१ आनन्दाइति साधुसम्पत्ययार्थम् भणनं, अथवा अस्माद्दानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४, 'मत्सरिता' अपरेणेदं दत्तं किमहं
ध्ययनं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता ५, एते चातिचारा एव, न भङ्गाः, दानार्थ-16
व्रतातिमभ्युत्थानाद् दानपरिणतेश्च दूषितत्वाद्, भङ्गस्वरूपस्य चेहैवमभिधानाद्, यथा-दाणन्तरायदोसा न देइ दिजन्तयं च वारेइ । चारोपदेशः दिण्णे वा परितप्पइ इति किवणत्ता भवे भङ्गो ॥ १॥ आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषोऽस्माभिरवबुद्धः, केवलमिह 5 भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः सम्पदायात् नवपदादिषु तथा दर्शनात्,-जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जयणा जह अइयारा भङ्गा तह भावणा नेया ॥२॥ इत्यस्या आवश्यकचूण्यां पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायोप्रसिद्धत्वाच्च, ततो नेदं शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति, तथा य एते प्रतिव्रतं पञ्च | पश्चातिचारास्त उपलक्षणमतिचारान्तराणामवसेया न त्ववधारणं, यदाहुः पूज्याः- “पञ्च पश्चाइयारा उ, सुत्तम्मि जे पदसिया । ते नावहारणढाए, किन्तु ते उवलक्षणं ॥१॥" इति । इदं चेह तत्त्वं यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका
१दानान्तरायदोषात् न ददाति ददतं च वारयति । दत्ते वा परितप्यति इति कृपणत्वाद् भवेद्भङ्गः ॥१॥ २ यादृशो यतिभेदो यथा जायते यथा च दोषगुणाः । यतना यथाऽतिचारा भङ्गास्तथा भावना ज्ञेया ॥२॥ ३ पश्च पश्चातिचारास्तु सूत्रे ये प्रदर्शिताः। ते नावधारणार्थ किन्तु ते उपलक्षणम् ॥३॥
dain Educati
o na
For Personal &Private Use Only
M.jainelibrary.org