SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मनुच्चारयत एव परेषां स्वसमीपानयनाथ स्वशरीररूपदर्शनं रूपानुपातः ४ 'बहिया पोग्गल पक्खेवे' त्ति अभिगृहीतदेशाबहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्टादिपुद्गलप्रक्षेप इति भावना ५, इह चाद्यद्वयस्यानायोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ 'पोसहोववासस्स' त्ति इह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवासः पोषधोपवासः, स चाहारादिविषयभेदाच्चतुर्विध इति तस्य, 'अप्पडिलेहिये'त्यादि अप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षितः 'दुष्प्रत्युपेक्षितः उद्धान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः शय्या-शयनं तदर्थं संस्तारकः-कुशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रर कर्मधारये भवत्यप्रत्युपेक्षितदुष्पत्युपेक्षितशय्यासंस्तारकः, एतदुपभोगस्यातिचारहेतुत्वादयमतिचार उक्तः १, ‘एवमप्रमा-3 र्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि' नवरं प्रमार्जनं वसनाञ्चलादिना २, एवमितरौ द्वौ, नवरमुच्चारः-पुरीष, स्रवणं, मूत्रं तयोर्भूमिः स्थण्डिलम् ३, ४, एते चत्वारोऽपि प्रमादितयाऽतिचाराः, 'पोसहोववासस्स सम्म अणणुपालपय' त्ति के कृतपोषधोपवासस्यास्थिरचित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलपणादननुपालना पोषधस्येति, अस्य चातिचारत्वं भावतो विरतेर्वाधितत्वादिति ॥ 'अहासंविभागस्से ति अहात्त-यथासिद्धस्य स्वार्थ निवर्तितस्येत्यर्थः, अशनादेः समिति-सङ्गतत्वेन पश्चात्कर्मादिदोपपरिहारेण विभजनं साधये दानद्वारेण विभागकरणं यथासंविभागः तस्य, 'सचित्तनिक्खिवणये'त्यादि सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं १, एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानं २, 'कालातिक्रमः' कालस्य-साधुभोजनकालस्यातिक्रमः-उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः,- कालमूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददाति एवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति ३, तथा 'परव्यपदेशः' SARI Jain Education International For Personal & Private Use Only M .jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy