SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ एकाकिनः सन्तो हरन्तीति 'उक्कडग'त्ति अपकर्षका ये गेहाद् ग्रहणं निष्काशयन्ति चौरान् वा आकार्य पर - गृहाणि मोषयन्ति चौरपृष्ठवहा वा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'उच्छ्पिक'त्ति अवच्छि म्पका चौरविशेषा एव सार्थघातकाः प्रतीताः बिलकोलीकारकाः परव्यामोहनाय विस्वरवचनवादिनो विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निग्रहाः राजादिना अवगृहीता इत्यर्थः, ते च ते विप्रलोपकाश्चेति समासः बहुविधेन 'तेणिक्क'त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिकहर णबुद्धी | पाठान्तरेण 'बहुविहतहवहरणबुद्धि'त्ति बहुविधा तथा तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्त रूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह- परस्य द्रव्याद्ये अविरता - अनिवृत्ता इति । ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते - विपुलं बलं -सा|मर्थ्यं परिग्रहश्च परिवारो येषां ते तथा ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा खके-द्रव्येऽसन्तुष्टाः परविषयान् -परदेशानभिन्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं सैन्यं तेन समग्रा - युक्ता येते तथा निश्चितैः- निश्चयवद्भिर्वरयोधैः सह यद्युद्धं-सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः-पदातिभिः कचित्सैन्यैरिति पठ्यते संपरिवृताः समेताः तथा पद्मशकटसूचीचक्र सागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारो व्यूहः पद्मव्यूहः- परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव Jain Educational For Personal & Private Use Only jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy