SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पनस्य-गर्हितलापस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना, चौर्य हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्येव, तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः २५ व्यसनं व्यसनहेतुत्वात् पाठान्तरेण आससणाय वसणं'ति आशसनाय-विनाशाय व्यसनमिति २६ इच्छा च-परधनं प्रत्यभिलाषः मूछा-तत्रैव गाढाभिषङ्गरूपा तहेतुकत्वाददत्तग्रहणस्येति इच्छामूर्छा च तदुच्यते २७ तृष्णा च -प्राप्तद्रव्यस्याव्ययेच्छा गृद्धिश्च-अप्राप्तस्य प्राप्तिवाञ्छा तहेतुकं चादत्तादानमिति तृष्णा गृद्धिश्चोच्यत इति २८ निकृते:-मायायाः कर्म निकृतिकर्म २९ अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपराक्षं अस-1 मक्षमित्यर्थः, इतिरुपदर्शने अपिचेति समुच्चये ३०, इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि, 'तस्स'त्ति यस्य स्वरूपं प्राग्वर्णितं तस्यादत्तादानस्येति सम्बन्धः, एतानि-अनन्तरोदितानि त्रिंशदिति योगः एवमादिकानि-एवंप्रकाराणि चानेकानीति सम्बन्धः, अनेकानीति कचिन्न दृश्यते, नामधेयानि-नामानि भवन्ति, किम्भूतस्य अदत्तादानस्य ?-पापेन-अपुण्यकर्मरूपेण कलिना च-युद्धेन कलुषाणि-मलीमसानि यानि कर्माणि-मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलं-प्रचुरं यत् तानि वा बहुलानि-बहूनि यत्र तत्तथा तस्य । अथ ये अदत्तादानं कुर्वन्ति तानाह तं पुण करेंति चोरियं तकरा परदव्वहरा छेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगच्छा दद्दरओवीलका य गेहिया अहिमरा अणभंजकभग्गसंधिया रायदुहकारी य विसयनिच्छूढलोक ARRRRRORENA Jain Education BICI For Personal & Private Use Only G Mlainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy