SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दावकान्युपतापकानि यानि तानि तथा, यावजीवं दुरुद्धराणि-आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च-अतिकठोरेण वचनेन यत्तर्जनं-रे दास! पुरुषेण भवितव्यमित्यादि निर्भर्त्सनं-अरे! दुष्टकर्मकारिनपसर दृष्टिमार्गादित्यादिरूपं ताभ्यां दीनवदनं 'विमण'त्ति विगतं च मनो येषां ते तथा, कुभोजनाः कुवाससः कुवसतिषु क्लिश्यन्तो नैव सुखं शारीरं नैव निवृति-मनःस्वास्थ्यं उपलभन्ते-प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः। तदियताऽलीकस्य फलमुक्तं, 'एसो' इत्यादिना त्वधिकृतद्वारनिगमनं इति, व्याख्या त्वस्य प्रथमाध्ययनपश्चमद्वारनिगमनवत्, "एयं तं बितियंपी'त्यादिनाऽध्ययननिगमनं, अस्य त्वधिकृताध्ययन प्रथमद्वारवद् व्याख्यानं, परं एतत्तद्यत्प्रागुद्दिष्टं द्वितीयमपि अधर्मद्वारं न केवलं प्रथममेवेति विशेषः, तदेवं| 8|द्वितीयमधर्मद्वारं समाप्तमिति, इतिशब्दब्रवीमिशब्दावपि पूर्ववदेवेति प्रश्नव्याकरणे द्वितीयमध्ययनं विवरणतः समाप्तमिति ॥२॥ अथ तृतीयमदत्तादानाख्यमधर्मद्वारम् । व्याख्यातं द्वितीयमध्ययनं, अथ तृतीयमारभ्यते, अस्य च पूर्वेण सह सूत्राभिहिताश्रवद्वारक्रमकृत एवं सम्बन्धोऽथवा पूर्वत्रालीकस्वरूपं प्ररूपितं अलीकं चादत्तग्राहिणः प्रायेण जल्पन्तीत्यदत्तादानखरूपमिह प्ररूप्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् Jain Education anal For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy